🕉️ 28 November 2026, Saturday · 07:34:31 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

देवगणग्रह
devagaṇagraha
🟢 वाचस्पत्यम्
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
देवगणग्रह पु० सुश्रुतोक्ते देवादिगणरूपे ग्रहे देवानाञ्च शुद्धस्वभावत्वात् ग्रहत्वासम्भवमाशङ्क्य । तद्गणाना मेव ग्रहत्वं च तत्रोक्तं यथा “गुह्यानागतविज्ञानमनवस्था सहिष्णुता । क्रिया वा- ऽमानुषी यस्मिन् स ग्रहः परिकीर्त्त्यते । अशुचिं भि न्नमर्य्यादं क्षतं वा यदि वाऽक्षतम् । हिस्युर्हिंसाविहा- रार्थं सत्कारार्थमथापि च । असंख्येया ग्रहगणा ग्र- हाधिपतयस्तु ये । व्यज्यन्ते विविधाकारा भिद्यन्ते ते तथाष्टधा । देवास्तथा शत्रुगणाश्च तेषां गन्धर्वयक्षाः पितरो भुजङ्गाः । रक्षांसि या चापि पिशाचजाति रेषोऽष्टधा देवगणग्रहाख्यः । सन्तुष्टः शुचिरपि चेष्ट- गन्धमाल्यो निस्तन्द्रो ह्यवितथसंस्कृतप्रमाषी । तेजस्वी- स्थिरनयनो वरप्रदाता ब्रह्मण्यो भवति च यः स देव- जुष्टः । संस्वेदी द्विजगुरुदेवदीषवक्ता जिह्माक्षो विगत- भयो विमार्गदृष्टिः । सन्तुष्टो भवति न चान्नपानजातै- र्दुष्टात्मा भवति च देवशत्रुजुष्टः । हृष्टात्मा पुलिनवना- न्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः । नृत्यन् वा प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितो मनुष्यः । ताम्राक्षः प्रियतनुरक्तवस्त्रधारी गम्भीरो- द्रुतगतिरल्पवाक् सहिष्णुः । तेजस्वी वदति च किं द दामि कस्मै यो यक्षप्रहपरिपीडितो मनुष्यः । प्रेतेभ्यो विसृजति संस्तरेषु पिण्डान् शान्तात्मा जलमपि चाप- सव्यवस्त्रः । मांसेप्सुस्तिलगुडपायसाभिकामस्तद्भक्तो भ- वति पितृग्रहाभिभूतः । भूमौ यः प्रसरति सर्पवत्कदा- चित् सृक्कण्यौ विलिहति जिह्वया प्रसक्तम् । निद्रालु- र्गुडमधुदुग्धपायसेप्सुर्विज्ञेयो भवति भुजङ्गमेन जुष्टः । मांसासृग्विविधसुराविकारलिप्सुर्निल्लज्जो भृशमतिनि- ष्ठुरोऽतिशूरः । क्रोधालुर्विपुलबलो निशाविहारी शौचद्विड्भवति च रक्षसा गृहीतः । उद्धस्तः कृशप- रुषश्चिरप्रलापी दुर्गन्धो भृशमशुचिस्तथातिलोलः । ब- ह्वाशी विजनहिमाम्बुरात्रिसेवी व्याचेष्टं भ्रमति रुदन् पिशाचजुष्टः । स्थूलाक्षस्त्वरितगतिः स्वफेनलेही नि- द्रालुः पतति च कम्पते च योऽति । यश्चाद्रिद्विरदनगा- [] दिविच्युतःसन् संसृष्टो न भवति वार्द्धकेन जुष्टः । देव- ग्रहाः पौर्णमास्यामासुराः सन्ध्ययोरपि । गन्धर्वः प्राय- शोऽष्टम्यां यक्षाश्च प्रतिपद्यथ । कृष्णपक्षे च पितरः पञ्चम्यामपि चोरगाः । रक्षांसि निशि पैशाचाश्चतुर्दश्यां विशन्ति च । दर्पणादीन् यथा छाया शीतोष्णं प्रा- णिनो यथा । स्वमणिंभास्करार्चिश्च यथा देहं च देहि- नः । विशन्ति च न दृश्यन्ते ग्रहास्तद्वच्छरीरिणम् । तपांसि तीव्राणि तथैव दानव्रतानि धर्मो नियमश्च सत्यम् । गुणास्तथाष्टावपि तेषु नित्या व्यस्ताः समस्ताच्च यथाप्रभावम् । न ते मनुष्यैः सह संविशन्ति नवा म- नुष्यान् क्वचिदाविशन्ति । ये वाविशन्तीति वदन्ति मो- हात्ते भूतविद्याविषयादपोह्याः । तेषां ग्रहाणां परि- चारका ये कोटीसहस्रायुतपद्मसंख्याः । असृग्वसामां सभुजः सुभीमा निशाविहाराश्च तमाविशन्ति । निशा- चराणां तेषां हि ये देवगणसंसृताः । ते तु तत्सत्वसंस- र्गाद्विज्ञेयास्तु तदञ्जनाः । देवग्रहा इति पुनः प्रोच्यन्ते शुचयश्च ये । देववत् ते नमस्यन्ते प्रत्यर्थन्ते च देववत्” ।
📄 मूल मुद्रित पृष्ठ (3677-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬