देवज त्रि० देवाज्जायते जन--ड । १ देवजाते २ सामभेदे न० । “तस्मादाहुः सत्यं साम देयजं सामेति” शत० ब्रा० ३ । ४ । २ । १६ । कृशाश्वसहोदरे सूर्यवंश्ये ३ संयमनृपपुत्रभेदे पु० । “तत्पुत्रात् संयमादासीत् कृशाश्वः सहदेवजः” भाग० ९ । २ । २२ देवजेन सह वर्त्तमानः कृशाश्वः । सूर्यसम्पादिते ४ ऋतौ पु० “सप्तथमाहुरेकजं षडिद् यमा ऋषयो देवजाः” ऋ० १ । १६४ । १५ । “सप्तानामृतूनां मध्ये सप्तथं सप्तम- मृतुम् । “थट् च छन्दसि” पा० इति थट् । एकजमेके- नोत्पन्नमाहुः कालतत्त्वविदः । चैत्रादीनां द्वादशानां मासानां द्वयमेलनैन वसन्ताद्याः षडृतवो भवन्ति । अ- धिकमासेनैक उत्पद्यते सप्तमर्तुः । न च तादृशो मास एव नास्तीति मन्तव्यम् । “अस्ति त्रयोदशो मास इत्या- हुरिति” श्रुतेः । तदेवोच्यते । षडिद् यमाः । इच्छब्द एव कारार्थः । षडेव ऋतवो मासद्वयरूपा ऋषयो गन्तारः । ते च देवजाः । देवादादित्याज्जाता इत्येवमाहुः । सप्तमधारस्य त्रयोदशस्य मासस्य देवाभावः । “निः सूर्य्यो- ऽधिकमासो हि मण्डलं तपते रवेरित्यादि” स्मृतेः । तस्मात् षडेय देवजाः अदेवज एकः” भा० सूर्यसंक्रान्तिरहि- तत्वान्निःसूर्यकत्वं तेन ऋतूनां चान्द्रत्वमपि गम्यते ।
📄 मूल मुद्रित पृष्ठ (3682,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।