देशान्तर न० अन्योदेशः मयूर० स० । १ देशभेदे तच्च स्मृतौ परिभाषितं यथाह वृद्धमनुः “वाचो यत्र विभिद्यन्ते गिरिर्वा व्यवधायकः । म- हानद्यन्तरं यत्र तद्देशान्तरमुच्यते । देशनामनदी- भेदान्निकटोऽपि भवेद् यदि । तत्तु देशान्तरं प्रोक्तं स्वयमेव स्वयम्भुवा । दशरात्रेण या वार्त्ता न श्रूयेता- थवा पुनः । वृहस्पतिः “देशान्तरं वदन्त्येके षष्टियो- जनमायतम् । चत्वारिंशद्वदन्त्येके त्रिंशदेके तथैव च” “इत्युक्तमुनिद्वयवचनोक्तवागादियोजनादिभेदसामञ्जस्या- र्थमेवं व्याख्यायते त्रितयवैशिष्ट्ये त्रिंशद् योज- नाभ्यन्तरे, द्वितीयवैशिष्ट्ये तदुपरि, एकवैशिष्ट्ये च- त्वारिंशद्योजनोपरि, वाणीगिरिमहानद्यन्तरितत्वभेदा- [] भावेऽपि षष्टियोजनोपरि, वैदेश्यमिति शुद्धिचिन्ता- मणिः” शु० त० रघु० । “देशान्तरगते प्रेते” शु० त० “क्लीवे देशान्तरगते पण्डिते भिक्षुकेऽपि वा । योगशास्त्राभि- युक्ते च न दोषः परिवेदने” उ० त० शातातपः भूगोलस्थमध्यरेखातः पूर्वापरस्थे उत्तरदक्षिणस्थे वा योजनविशेषान्तररूपे चरसंज्ञके २ पदार्थे तत्स्वरूपं सि० शि० उक्तं तच्च चरशब्दे ८९८ पृ० दर्शितम् । अधि- कमत्र सि० शि० उक्तं तत्रादर्शितं दर्श्यते “यल्लङ्काज्जायनीपुरोपरि कुरुक्षेत्रादिदेशान् स्पृशत् सूत्रं मेरुगतं बुधैर्निगदिता सा मध्यरेखा भुवः” मू० “अ- त्रोपपत्तिर्गोले इदानीं देशान्तरमाह” प्रमिता० “यत्र रेखापुरे स्वाक्षतुल्यः पलस्तन्निजस्थानमध्यस्थितैर्योजनैः । खेटभुक्तिर्हता स्पष्टभूवेष्टनेनोद्धृता प्रागृणं स्वं तु पश्चाद् ग्रहे” मू० “अत्रोपपत्तिस्त्रैराशिकेन गोलेऽभिहिता च । इदानी देशान्तरघटिका आह” प्रमि० “प्राग्भूविभागे गणितोत्थकालादनन्तरं प्रग्रहणं विधोः स्यात् । आदौ हि पश्चाद्विवरे तयोर्या भवन्ति देशान्तरनाडिकास्ताः । तद्घ्नं स्फुटं षष्टिहृतं कुवृत्तं भवन्ति देशान्तरयोजनानि । घटीगुणा षष्टिहृता द्युभुक्तिः स्वर्णं ग्रहे चोक्तवदेव कार्यम् । अर्कोदयादूर्द्ध्वमधश्च ताभिः प्राच्यां प्रतीच्यां दिनपप्रवृत्तिः । ऊर्द्ध्वं तथाधश्चरनाडिकाभी रवावुदग्- दक्षिणगोलयाते” मू० । “यः किल मध्यरेखाया अपरिज्ञा- नात् ततः प्राक् पश्चाद्वा स्थितोऽस्मीति न वेत्ति तेनैवं ज्ञातव्यम् । विधुग्रहणदिने घटिकायन्त्रेण स्पर्शकाले रात्रिगतं ज्ञेयम् । अथ च गणितेन स्पर्शकालो ज्ञेयः । गणितोत्थकालादनन्तरं प्रग्रहणं यदि दृष्टं तदा द्रष्टा रेखातः प्राग्भूविभागे । यतो द्रष्टा यथा यथा रेखातः प्राग्व्रजति तथा तथा रेखोदयात् प्रागेवार्कोदयं प- श्यति । इतोऽन्यथा चेत् तदा पश्चाद् द्रष्टा । दृग्ग्र- हणप्रग्रहणकालयोरन्तरं देशान्तरघटिकास्ताभिर्गुणं षष्ट्या हृतं स्पष्टभूवेष्टनम् एवमनुपाताद्देशान्तरयोज- नानि । अथ वा किं योजनैः । यदि घटीषष्ट्या गति- र्लभ्यते तदा देशान्तरघटीभिः किमिति । एवं यत् फलमुत्पद्यते तत् प्रागृणं पश्चाद्धनमिति युक्तमुक्तम् । तथा प्राच्यां ताभिर्घटीमिर्दिनवारप्रवृत्तिरर्कोदयादूर्द्ध्वं भवति । प्रतीच्यां तु तस्मादधः । यतो लङ्कोदये वा- रादिः । अतएव च रवावुत्तरगोलस्थे चरार्द्धघटिका- भिरूर्द्ध्वम् । यतस्तदोन्मण्डलं क्षितिजादूर्द्ध्वम् । दक्षिणे [] त्वधोऽतस्तत्रोदयादधो वारप्रवृत्तिरिति सर्वं निरवद्यम्” प्रमि० ।
📄 मूल मुद्रित पृष्ठ (3752-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।