द्रव्यपति पु० द्रव्यभेदानां पतिः । वृ० सं० ४१ अ० उक्ते द्रव्यभेदानां महार्घतादिप्रयोजके पत्यौ मेषादिराशौ यथा “ये येषां द्रव्याणामधिपतयो राशयः समुद्दिष्टाः । [] मुनिभिः शुभाशुभार्थं तानागमतः प्रवक्ष्यामि । वस्त्रा- विककुतुपानां मसूरगोधूमरालकयवानाम् । स्थलसम्भ- वौषधीनां कनकस्य च कीर्तितो मेषः । गवि वस्त्रकुसु- मगोधूमशालियवमहिषसुरभितनयाः स्युः । मिथुनेऽपि धान्यशारदवल्लीशालूककर्पासाः । कर्किणि कोद्रवकद- लीदूर्वाफलकन्दपत्रचोचानि । सिंहे तुषधान्यरसाः सिंहादीनां त्वचः सगुडाः । षष्ठेऽतसीकलायाः कुल- त्थगोधूममुद्गनिष्पावाः । सप्तमराशौ माषा गोधूमाः सर्षपाः सयवाः । अष्टमराशाविक्षुः सैक्यं लोहान्य- जाविकं चापि । नवमे तु तगरलवणाम्बरास्त्रतिल- धान्यमूलानि । मकरे तरुगुल्माद्यं सैक्ये क्षुसुवर्णकृष्ण- लोहानि । कुम्भे सलिलजफलकुसुमरत्नचित्राणि रू- पाणि । मीने कपालसम्भवरत्नान्यम्बूद्भवानि वज्राणि । स्नेहाश्च नैकरूपा व्याख्याता मत्स्यजातं च । राशेश्च- तुर्दशार्थायसप्तनवपञ्चमस्थितो जीवः । द्व्येकादशदशप- ञ्चाष्टमेषु शशिजश्च वृद्धिकरः । षट्सप्तमगो हानिं वृद्धिं शुक्रः करोति शेषेषु । उपचयसंस्थाः क्रूराः शुभदाः शेषेषु हानिकराः । राशेर्यस्य क्रूराः पीडास्था- नेषु संस्थिता बलिनः । तत्प्रोक्तद्रव्याणां महार्घता दु- र्लभत्वं च । इष्टस्थाने सौम्या बलिनो येषां भवन्ति राशीनाम् । तद्द्रव्याणां वृद्धिः सामार्ध्यमदुर्लभत्वं च । गोचरपीडायामपि राशिर्बलिभिः शुभग्रहैर्दृष्टः । पीडां न करोति तथा क्रूरैरेवं विपर्यासः” ।
📄 मूल मुद्रित पृष्ठ (3781-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।