द्वादशकर पु० द्वादश करा भुजा यस्य । १ कार्तिकेये त्रिका० “स्वामी शाखी विशास्वश्च द्विभुजो बालरूप धृक् । दक्षे शक्तिः कुक्कुटोऽथ एकवक्त्रोऽथ षण्मुखः । षडभुजो वा द्वादशभिर्ग्रामेऽरण्ये द्विबाहुकः । शक्तीषुपाशनि स्त्रिंशतोत्रदीस्तर्जनीयुतः । शक्त्या दक्षिणहस्तेषु, षट्सु, वामे करे तथा । शिखिपिच्छं धनुः स्वेटं प- ताकाभयकुक्कुटे । कप्रालकर्तरीशूलपाशभृद्याम्य सौ- म्ययोः” हेमा० व्र० । २ शूलयोगे ३ हर्षणयोगे च तयोर्द्वा- दशहस्तत्वम् ३७९ पृ० दृश्यम् । द्वादशभुजादयोऽप्यत्र । ४ कुमारानुचरगणभेदे “अनन्तो द्वादशभुजस्तघा कृष्णो- पकृष्णकौ” भा० शल्य० ४६ अ० तद्गणोक्तौ । द्वादश- कराः किरणा यस्य । ५ द्वादशार्चिषि जीवे “ध्यात्वा पीताम्बरं पीतं सरोजस्यं चतुर्भुजम्” इत्युक्तेश्चतुर्भुज- त्वस्यैव प्रतीतेर्नात्रकरस्य हस्तपरता “भैरवीरूपविद्या च भुजैर्द्वादशभिर्युताः” हेमा० व्र० उक्ते ६ भैरवीभेदे स्त्री ।
📄 मूल मुद्रित पृष्ठ (3801,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।