द्वादशभाव पु० द्वादशगुणितो भावः । ज्यो० उक्तेषु तन्वादिषु द्वादशसु भावेषु तदानयनाटि तत्रस्थितग्रहफलञ्च नी० ता० उक्तं यथा “पूर्वं नतं स्याद्दिनरात्रिखण्डं दिवानिशोरिष्टघटीविहीनम् । दिवानिशोरिष्टघटीषु शुद्धं द्युरात्रिखण्डं त्वपरं नतं स्यात् । तत्काले साय- नार्कस्य भुक्तभोग्याऽंशसंगुणात् । स्वोदयात् खाग्निलब्धं यत् भुक्तं भोग्यं रवेस्त्यजेत् । इष्टनाडीपलेभ्यश्च गत- गम्यान्निजोदयात् । शेषं खत्र्याहतं भक्तमशुद्धेन लवा- दिकम् । अशुद्धशुद्धभे हीनयुक् तनुर्व्ययनांशकम् । एवं लङ्कोदयैर्भुक्तं भोग्यं शोध्यं पलीकृतात् । पूर्वपश्चान्नतादन्यत् प्राग्वत्तद्दशमं भवेत् । सषड्भे लग्नखे जायातुर्य्यौ लग्नोनतुर्य्यतः । षष्ठांशयुक् तनुः सन्धिरग्रे षष्ठांशयोजनात् । त्रयः ससन्धयोभावाः षष्ठांशेनैकयुक सुखात् । अग्रे त्रयः षडेवं ते भार्द्ध- युक्ताः परेऽपि षट् । खेटे भावसमे पूर्ण्णं फलं सन्धिसमे तु खम् । हीनेऽधिके द्विसन्धिभ्यां भावे पूर्वापरे फलम् । मुक्तं भोग्यं स्वेष्टकालान्न शुद्ध्येत् त्रिंशन्निघ्नाद्भोदयाप्तं लवाद्यम् । हीनं युक्तं भास्करे तत्तनुः स्याद्रात्रौ लग्नं भार्द्धयुक्ताद्रवेस्तु । खेटे सन्घिद्वयान्तःस्थे फलं तद्भावजं भवेत् । हीनेऽधिके द्विसन्धिभ्यां भावे पूर्वा- परे फलम् । ग्रहसन्ध्यन्तरं कार्य्यं विंशत्या गुणितं भवेत् । भावसन्ध्यन्तरेणाप्तं फलं विंशोपकाः स्मृताः” । अयमर्थः । मेषादिराशीनामुदयकालोलग्नं तस्य च त्रिंशदंशरूपतया जन्मकाले मेषादीनां यतमोऽंशो गतः तदारभ्य तदुत्तरराशेस्ततोर्वाचीनाशान्तः तनुभावः एवं धनभावादि एवं तन्वादिद्वादशभावास्तेषां सन्धयोऽपि तथैव ज्ञेयाः । राशिमात्रगणनया फलं स्थूलं भावगणनया तु सूक्ष्मं फलादिकं भवतीति ज्ञेयम् । ते च तनुभावः, धनरावः, सहजभावः, बन्धुभावः, पुत्रभावः, रिपुभावः, कलत्रभावः, मृत्युभावः, धर्मभावः, कर्मभावः, आयभावः, व्यवभावश्चेति द्वादश । तेषां सन्धयश्च द्वादशेत्यवधेयम् ।
📄 मूल मुद्रित पृष्ठ (3802,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।