🕉️ 24 November 2026, Tuesday · 04:51:05 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

द्वारवती
dvāravatī
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
द्वारवती संज्ञा स्त्री॰ [सं॰] द्वारावती । द्वारका ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
द्वार—वती f. N. of the capital of Kṛṣṇa, MBh.; Hariv.
📄 मूल मुद्रित पृष्ठ (504,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
द्वारवती, द्वारावती = द्वारका q. v.
📄 मूल मुद्रित पृष्ठ (0587-b)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
द्वार(रा)वती स्त्री द्वाराणि चतुर्वर्णमोक्षद्वाराणि प्रश- स्तान्यत्र मतुप् मस्य वः संज्ञात्वेन वा पूर्वपददीर्घः । सवद्रोपान्तिके श्रीवासुदेवनिर्मिते पुरीभेदे तत्पुरी निर्माणप्रकारस्थानादिकं हरिवं० विस्तरती वर्णितं दिङ्- मात्रमत्रोच्यते । “आनूपं सिन्धुराजस्य प्रपेदुर्यदुपुङ्गवाः । ते तत्र रमणीयेषु विषयेषु सुखप्रियाः । मुसुदुर्यादवाः सर्वे देवाः स्वर्गगता यथा । पुरवास्तु विचिन्वन् स कृष्ण- स्तु परवीरहा । ददर्श विपुलं देशं सागरानूपशोभि- तम् । वाहनानां हितञ्चैव सिकताताम्रमृत्तिकम् । पुरलक्षणसम्पन्नं कृतास्पदमिव श्रिया । सागरानिल- संवीजं सागराम्बुनिषेवितम् । विषयं सिन्धुराजस्य शोभितं पुरलक्षणैः । तत्र रैवतकोनाम पर्वतोनाति- दूरतः । मन्दरोदारशिखरः सर्वतोऽभिविराजते । तत्रैकलव्यसंवासो द्रोणेनाध्युषितश्चिरम् । प्रभूत- पुरुषोपेतः सर्वरत्नसमाकुलः । विहारभूमिस्तत्रैव तस्य राज्ञः सुनिर्मिता । नाम्ना द्वारवती नाम स्वाय ताऽष्टापदोपमा । केशवेन मतिस्तत्र पुर्य्यर्थे विनि- वेशिता । निवेशं तत्र सैन्यानां रोचयन्ति स्म यादवाः । तै रक्तसूर्य्ये दिवमे तत्र यादवपुङ्गवाः । सेनापालाश्च सञ्चक्रुः स्कन्धावारनिवेशनम् । ध्रुवाय तत्र न्यवसत् केशवः सह यादवैः । देशे पुरनिवेशाय स यदु [] प्रवरो विभुः । तस्यास्तु विविधं नाम वास्तूनि च गदाग्रजः । निर्ममे पुरुषश्रेष्ठो मनसा यादवोत्तमः । एवं द्वारावतीञ्चैव पुरीं प्राप्य सवान्धवाः” । हरिवं० ११४ अ० । “इयं द्वारावती नाम पृथिव्यां निर्मिता मया । भविष्यति पुरी रम्या शक्रस्येवामरावती । तान्येवास्याः कारयिष्ये चिह्नान्यायतनानि च । चत्व- रान् राजमार्गांश्च समानन्तःपुराणि च । देवा इवात्र मोदन्तां वसन्तो विगतज्वराः । बाधमाना रि- पूनुग्रानुग्रसेनपुरोगमाः । गृह्यन्तां गृहवास्तूनि का- र्य्यन्तां त्रिकचत्वराः । मीयन्तां राजमार्गाश्च प्राका- रस्य च या गतिः । प्रेष्यन्तां शिल्पिमुख्या वै नियुक्ता वेश्मकर्मसु । नियुज्यन्ताञ्च देशेषु प्रेष्यकर्मकराजनाः । एवमुक्तास्तु यदवो गृहसंग्रहतत्पराः । यथा- निवेशं संहृष्टाश्चक्रुर्वास्तुपरिग्रहम् । सूत्रहस्तास्ततो- मानं चक्रुर्यादवपुङ्गवाः । पुण्येऽहनि महाराज! द्विजातीन् प्रतिपूज्य च । वास्तुदैवतकर्माणि विधि- नाऽकारयंस्ततः । स्थपतीनथ गोविन्दस्तत्रोवाच महामतिः । अस्मदर्थे सुविहितं क्रियतामत्र मन्दिरम् । विभक्तचत्वरपथं सुनिविष्टेष्टदैवतम् । ते तथेति महाबाहुमुक्त्वा स्थपतयस्तदा । दुर्गकर्मणि सम्भारानुप- लभ्य यथाविधि । यथान्यायं निर्ममिरे द्वाराण्यायत- नानि च । स्थानानि विदधुस्तस्यां ब्रह्मादीनां यथा- क्रमम् । अपामग्नेः सुरेशस्य वृषदोलूखलस्य च । चातुर्द्देवानि चत्वारि द्वाराणि विदधुश्च ते । शुद्धाक्ष- मैन्द्रं भल्लाटं पुष्पदन्तं तथैव च । ते वेश्मसु युक्तेषु यादवेषु महात्मसु । पुर्य्याः क्षिप्रं प्रवेशार्थं चिन्तयामास माधवः । तस्य दैवोत्थिता बुद्धिर्विमला क्षिप्रकारिणी । पुर्य्याः सा वै प्रियकरी यदूनामभिवर्द्धिनी । शिल्पि- मुख्यस्तु देवानां प्रजापतिसुतः प्रभुः । विश्वकर्मा खमत्या वै पुरीं संस्थापयिष्यति । मनसा समनुध्याय तस्यागमनकारणात् । त्रिदशाभिसुखः कृष्णो विविक्ते समपद्यत । तस्मिन्नेव ततः काले शिल्प्याचार्य्यो महा- मतिः । विश्वकर्मा सुरश्रेष्ठः कृष्णस्य प्रमुखे स्थितः । यदीच्छेत् सागरः किञ्चिदुत्स्रष्टुमिह तोयराट् । ततः स्वायतलक्षण्या पुरी स्यात् पुरुषोत्तम! । एव- मुक्तस्ततः कृष्णः प्रागेव कृतनिश्चयः । सागरं सरितां नाथमुवाच वदतां वरः । समुद्र! दश च द्वे च योज- नानि जलाशये । प्रतिसंह्रियतामात्मा यद्यस्ति मयि [
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
द्वारवती, स्त्री, (द्वाराणि सन्त्यत्र । यद्वा, चतु- र्वर्णानां मोक्षद्वाराणि सन्ति अत्रेति । द्वार + मतुप् । मस्य वः ।) द्वारका । इति त्रिकाण्ड- शेषः ॥ (यथा, हरिवंशे । १० । ३४ । “कृतां द्वारवतीं नाम बहुद्बारां मनोरमाम् ॥” तथा च तत्रैव, -- “चतुर्णामपि वर्णानां यत्र द्वाराणि सर्व्वतः । अतो द्वारवतीत्युक्ता विद्बद्भिस्तत्त्ववेदिभिः ॥” इयं हि पीठस्थानानामन्यतमा । अत्र भगवती रुक्मिणीरूपेण विराजते । यथा, देवीभावते । ७ । ३० । ६९ । “रुक्मिणी द्वारवत्यान्तु राधा वृन्दावने वने ॥”)
📄 मूल मुद्रित पृष्ठ (2-767-a)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬