द्विरागमनं, क्ली, (द्विर्वारं विवाहात् परं आग- मनं स्वामिगृहे इत्यर्थः ।) विवाहानन्तरं बध्वाः पितृगेहात् पतिगृहे पुनरागमनम् । यथा, नारायणपद्धतौ । “वृत्ते पाणिग्रहे गेहात् पितुः पतिगृहं प्रति । पुनरागमनं बध्वास्तद्द्विरागमनं विदुः ॥” तस्य शुभकालदिनादि यथा । दीपिकायाम् । “स्त्रीशुद्ध्यालिघटाजसंयुतरवौ काले विशुद्धे भृगुं संत्यज्य प्रतिलोमगं शुभदिने यात्राप्रवेशोचिते । त्यक्त्राहस्तु निरंशकं नवबधूयात्राप्रवेशौ पतिः कुर्य्यादेकपुरादिषु प्रतिभृगोर्नेच्छन्ति दोषं बुधाः ॥ पैत्रागारे कुचकुसुमयोः सम्भवो वा यदि स्यात् कालः शुद्धो न भवति यदा संमुखो वापि शुक्रः । मेषे कुम्भेऽलिनि च न भवेत् भास्करश्चेत्तथापि स्वामी भद्रेऽहनि नवबधूं वेशयेन्मन्दिरं स्वम् ॥ भर्त्तर्गोचरशोभने दिनपतौ नास्तं गते भार्गवे सूर्य्ये कीटघटाजगे शुभदिने पक्षे च कृष्णेतरे । हित्वा च प्रतिलोमगौ बुधसितौ जीवस्य शुद्धौ तथा चानीता गुणशालिनी नवबधूर्नित्योत्सवा मोदते ॥ एकग्रामे चतुःशाले दुर्भिक्षे राष्ट्रविप्लवे । पतिना नीयमानायाः पुरः शुक्रो न दुष्यति ॥” [] तथा, -- “काश्यपेषु वशिष्ठषु भृग्वादित्याङ्गिरःसु च । भारद्बाजेषु वात्स्येषु प्रतिशुक्रो न दोषभाक् ॥” श्रीपतिसंहितायां प्रचेताः । “पुष्यादित्यसमीरणादिति वसुष्वप्युत्तरारेवती- तारानायकरोहिणीषु शुभदे मेषालिकुम्भेरवौ । वारेष्विज्यसितेन्दुवित्सु शुभदे तारे प्रशस्ते विधौ कन्यामन्मथमीनतौलिमृगभे स्यादङ्गना- द्ब्यागमः ॥” ज्योतिःसारसंग्रहे । “विवाहमासि प्रथमं बध्वा नागमनं यदि । तदा सर्व्वमिदं चिन्त्यं युग्माद्यब्दं विचक्षणैः ॥” कृत्यचिन्तामणौ । “श्वश्रूं हन्त्यष्टमे वर्षे श्वशुरञ्च दशाब्दिके । सम्प्राप्ते द्बादशे वर्षे पतिं हन्ति द्बिरागमे ॥” मत्स्यसूक्ते । “भुक्त्वा पितृगृहे कन्या भुङ्क्ते स्वामिगृहे यदि । दौर्भाग्यं जायते तस्याः शपन्ति कुलनायिकाः ॥” इति ज्योतिस्तत्त्वम् ॥ निष्कर्षस्तु । “विवाहमासि प्रथममनागताया बध्वा अष्टम- दशमद्बादशेतरवर्षे कालशुद्धौ वैशाखमार्गशीर्ष- फाल्गुनान्यतममासे रविशुद्धौ सोमबुधगुरु- शुक्रान्यतमवारे चन्द्रतारानुकूले रोहिणीपुन- र्व्वसुमृगशिरःपुष्योत्तरात्रयहस्तस्वातीधनिष्ठा- रेवतीषु विष्टिभिन्नकरणेषु निषिद्धेतरयोगेषु कन्यामिथुनतुलामीनलग्नेषु द्विरागमनम् । कस्यचिन्मते बुधवारोऽपि निषिद्धः । दक्षिणदिङ्मुखगमनं गमनमभिनवनारीणाम् । व्ययमपि धान्यादीनां न बुधो बुधवासरे कुर्य्यात् ॥” इति सत्कृत्यमुक्तावली ॥
📄 मूल मुद्रित पृष्ठ (2-770-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।