द्विव्रण पु० द्विविधो ब्रणः शाक० त० । सुश्रुतोक्ते शारीरे आग न्तुके च द्विविधे व्रणे । तस्येदम् छ । द्विव्रणीय तदधिका रेण चिकित्सितादौ । द्विविधाव्रणतद्भेदनिदानादि सुश्रुते दर्शितं यथा “अथातो द्विव्रणीयचिकित्सितं व्याख्या- स्यामः । द्वौ व्रणौ भवतः शारीर आगन्तुश्चेति । तयोः शारीरः पवनपित्तकफशोणितसन्निपातनिमित्तः । आगन्तुरपि पुरुषपशुपक्षिव्यालसरीसृपप्रपतनपीडनप्र- हाराग्निक्षारविषतीक्ष्णौषधशकलकपालशृङ्गचकेषुपर- शुशक्तिकुन्ताद्यायुधाभिघातनिमित्तः । तत्र तुल्ये व्रण- सामान्ये द्विकारणोत्थानप्रयोजनसामर्थ्याद्द्विव्रणीय इत्युच्यते । सर्वस्मिन्नेवागन्तु व्रणे तत्कालमेव क्षतोष्मणः प्रसृतस्योपशमार्थं पित्तवच्छीतक्रियावधारणविधिर्वि- शेषः सन्धानार्थञ्च मधुघृतप्रयोग इत्येतद्द्विकारणोत्था- नप्रयोजनमुत्तरकालन्तु दोषोपप्लवविशेषाच्छारीरवत्- प्रतीकारः । दोषोपप्लवविशेषः पुनः समासतः पञ्चदश- प्रकारः प्रसरणसामर्य्याद्यथोक्तो व्रणप्रश्नाधिकारे शुद्ध- त्वात् षोडशप्रकार इत्येके । तस्य लक्षणं द्विविधं सा- मान्यं वैशेषिकञ्च । तत्र सामान्यं रुक्, व्रण गात्रविचू- र्णने व्रणतीति व्रणः । विशेषलक्षणं पुनर्वातादिलिङ्गवि- शेषः । तत्र श्यावारुणाभस्तनुः शीतपिच्छिलाल्पस्रावी- रूक्षश्चटचटायनशीलः स्फुरणायामतोदभेदवेदनाबहुली निर्मांसश्चेति वातात् । क्षिप्रजः पीतनीलाभः किंशुको- दकाभोष्णस्रावी दाहपाकरागविकारो पीतपिडकाजुष्ट- श्चेति पित्तात् । प्रततचण्डकण्डूबहुलः स्थूलो घनः स्तब्धसिरास्नायुजालावततः कठिनः पाण्ड्ववभासो मन्द- वेदनः शुक्लशीतसान्द्रपिच्छिलास्रावी गुरुश्चेति कफात् । प्रबालदलनिचयप्रकाशः कृष्णस्फोटपिडकाजालोपचित- स्तुरङ्गस्थानगन्धः सवेदनो धूमायनशीलो रक्तस्रावी पित्तलिङ्गश्चेति रक्तात् । तोददाहधूमायनप्रायः पीता- रुणाभासस्तद्वर्णस्रावी चेति वातपित्ताभ्याम् । कण्डू- यनशीलः सनिस्तोदो दारुणो मुहुर्मुहुः शीतपिच्छिल स्रावी चेति वातश्लेष्मभ्याम् । गुरुः सदाह उष्णः पीतः पाण्डुस्रावी चेति पित्तश्लेष्मभ्याम् । रूक्षस्तनुस्तोदब- हुलः सुप्त इव च रक्तारुणाभस्तद्वर्णस्रावी चेति वात- शोणिताभ्याम् । घृतमण्डाभो मीनधावनतोयगन्धिर्मृदु- [] र्विसर्प्युष्णकृष्णस्रावी चेति पित्तशोणिताभ्याम् । रक्तो- गुरुः पिच्छिलः कण्डूप्रायः स्थिरः सरक्तपाण्डुस्रावी चेति श्लेष्मशोणिताभ्याम् । स्फुरणतोददाहधूमायन- प्रायः पीततनुरक्तस्रावी चेति वातपित्तशोणितेभ्यः । कण्डूस्फुरणचुम्चुमायनप्रायः पाण्डुघनरक्तस्रावी चेति वातपित्तश्लेष्मशोणितेभ्यः । दाहपाकरागकण्डूप्रायः पाण्डुघनरक्तस्रावी चेति श्लेष्मपित्तशोणितेभ्यः । त्रिवि- धवर्णवेदनास्रावविशेषोपेतः पवनपित्तकफेभ्यः । निर्द- हननिर्मथनस्फुरणतोददाहपाकरागकण्डस्वापबहुलोना- नावर्णवेदनास्रावविशेषोपेतः पवनपित्तकफशोणितेभ्यः । जिह्वातलाभो मृदुः स्निग्धः श्लक्ष्णो विगतवेदनः सुव्य- वस्थितो निरास्रावश्चेति शुद्धो व्रण इति ।”
📄 मूल मुद्रित पृष्ठ (3826-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।