धकारः तवर्गीयः पञ्चमः व्यञ्जनवर्णभेदः । तस्योच्चारणस्थानं दन्त- मूलं “दन्त्या लतुलसाः स्मृताः” इति तवर्गस्य दन्त्यत्वोक्तिः दन्तमूलपरत्वेन, अन्यथा भग्नदन्तस्य तवर्गोच्चारणानुप- पत्तेः । व्यञ्जनवर्णत्वादर्द्धमात्रत्वम् तस्य । तस्योच्चारणे आभ्यन्तरप्रयत्नः स्पृष्टता जिह्वाग्रेण दन्तमूलस्य सम्यक्- स्पर्शेन तस्थोच्चारणात् तथात्वम् । वाह्यप्रयत्नाश्च संवार- नादवोषा महाप्राणश्च, सि० कौ० मूलं दृश्यम् । अस्य वाचकशब्दा वर्णाभिधानतन्त्रोक्ता यथा “धो धनार्थो रुचिः स्थाणुः सात्वतो योगिनीप्रियः । मीनेशः शङ्खिनी तोयं नागेशो विश्वपावनी । धिषणा धारणा चिन्ता नेत्रयुग्मं प्रियो मतिः । पीतवासास्त्रिवर्णा च धात्री धर्मः प्लवङ्गमः । सन्दर्शो मोहनो लज्जा वज्र- तुण्डः सुकन्धरा । वामपादाङ्गुलीमूलं ज्येष्ठा सुर पुरं भवः । स्पर्शात्मा दीर्घजङ्घा च धनेशो धनसञ्चयः” अस्य मातृकान्यासे वामपादाङ्गुलिमूले न्यास्यता । अस्याधिष्ठातृदेवताया ध्येयरूपम् । “षड्भुजां मेषवर्णाञ्च रक्त्राम्बरधरां पराम् । वरदां शोभनां रम्यां चतुर्वर्ग- प्रदायिनीम् । एवं ध्यात्वा धकारन्तु तन्मन्त्रं दशधा जपेत्” अस्य स्वरूपञ्च । “धकारं परमेशानि! कुण्डली मोक्षरूपिणी । आत्मादितत्त्वसंयुक्तं पञ्चदेवमयं सदा । पञ्चप्राणमयं देवि! विसिनीसहितं सदा । त्रिविन्दुसहितं वर्णं धकारं यदि भावयेत् । पीत- विद्युल्लताकारं चतुर्वर्गप्रदायकम्” कामधेनु० । अस्य काव्यादौ प्रथमन्यासफलं वृ० र० टीकायामुक्तं यथा “दोधः सौख्यं मृदं नः” ।
📄 मूल मुद्रित पृष्ठ (3835,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।