🕉️ 28 November 2026, Saturday · 11:28:22 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

धटपरीक्षा
dhaṭaparīkṣā
🟤 शब्दकल्पद्रुम
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
धटपरीक्षा, स्त्री, (धटस्य तुलायाः परीक्षा ।) तुलापरीक्षा । तत्र धटोत्पत्तिविधिर्यथा । “पितामहः । ‘छित्वा तु यज्ञियं वृक्षं यूपवन्मन्त्रपूर्व्वकम् । प्रणम्य लोकपालेभ्यस्तुला कार्य्या मनीषिभिः ॥’ यूपवदिति यूपच्छेदनविहितसर्व्वेतिकर्त्तव्यताति- देशः । सा च ओँ स्वधिते मैनं हिंसीरिति- च्छेदनमन्त्रविशेषादिरूपा इति व्यवहार- प्रदीपः ॥ ‘मन्त्रः सौम्यो वानस्पत्यच्छेदने जप्य एव च । चतुरस्रा तुला कार्य्या दृढा ऋज्वी तयैव च ॥ कटकानि च देयानि त्रिषु स्थानेषु चार्थवत् ॥’ कटकानि बलयानि । ‘चतुर्हस्ता तुला कार्य्या पादौ चोपरि तत्समौ ॥’ अत्र साधारणत्वेन शारदातिलकोक्तो हस्तो ग्राह्यः । यथा, -- ‘चतुर्विंशत्यङ्गुलाढ्यं हस्तं तन्त्रविदो विदुः । यवानामष्टभिः कॢप्तं मानाङ्गुलमितीरितम् ॥’ यवानां तण्डुलीकृतानाम् । ‘यवानां तण्डुलैरेकमङ्गुलं चाष्टभिर्भवेत् । अदीर्घयोजितैर्हस्तश्चतुर्व्विंशतिरङ्गुलैः ॥’ इति कालिकापुराणात् ॥ प्रमाणन्तु पार्श्वेन यवानाम् । ‘षड्यवाः पार्श्व- सन्मिताः ।’ इति कात्यायनवचनात् ॥ * ॥ अनयोर्व्यवस्थामाह कापिलपञ्चरात्रम् । ‘अष्टभिस्तैर्भवेज्ज्येष्ठं मध्यमं सप्तभिर्यवैः । कन्यसं षड्भिरुद्दिष्टमङ्गुलं मुनिसत्तम ! ॥’ कन्यसं कनिष्ठम् । पादौ स्तम्भौ । उपरि मृत्ति- कोपरि । तत्समौ चतुर्हस्तावित्यर्थः । वस्तुतस्तु उपरितत्समौ उपरि तत्समं काष्ठान्तरं ययोः पादयोस्तौ ॥ * ॥ स्तम्भप्रमाणमाह व्यासः । ‘हस्तद्वयं निखेयन्तु प्रोक्तं मुण्डकयोर्द्द्वयोः । षढस्तन्तु तयोः प्रोक्तं प्रमाणं परिमाणतः ॥’ मुण्डकयोः स्तम्भयोः । षढस्तं निखातहस्त- द्वयेन समं अर्थान्मृत्तिकोपरि हस्तचतुष्टय- मित्यर्थः । ‘अन्तरन्तु तयोर्हस्तौ भवेदध्यर्द्धमेव वा ।’ तयोः स्तम्भयोः । हस्तावन्तरं हस्तद्बयपरि- मितमध्यमित्यर्थः । अध्यर्द्धं सार्द्धहस्तद्बयम् । एतत्तु शालवृक्षोद्भवा कार्य्या पञ्चहस्तायता तुला । इति विष्णूक्तपञ्चहस्तायततुलाविषयम् । व्यवहारदीपिकाप्येवम् ॥ * ॥ अथ धटारोपणविधिः । पितामहः । [] ‘हस्तद्वयं निखेयन्तु पादयोरुभयोरपि ।’ अत्र हस्तद्वयं मृत्तिकाभ्यन्तरे । हस्तचतुष्टयं मृत्तिकोपरि । तथा, -- ‘तोरणे च तथा कार्य्ये पार्श्वयोरुभयोरपि ॥ धटादुच्चतरे स्यातां नित्यं दशभिरङ्गुलैः । अवलम्बौ च कर्त्तव्यौ तोरणाभ्यामधोमुखौ ॥ मृण्मयौ सूत्रसम्बद्धौ धटमस्तकचुम्बिनौ । प्राङ्मुखो निश्चलः कार्य्यः शुचौ देशे धटस्तथा ॥’ नारदः । ‘शिक्यद्वयं समासाद्य धटकर्कटयोर्दृढम् । एकत्र शिक्ये पुरुषमन्यत्र तुलयेच्छिलाम् ॥’ पितामहः । ‘प्राङ्मुखान् कल्पयेत् दर्भान् शिक्ययोरुभयोरपि । पश्चिमे तोलयेत् कर्त्तॄनन्यस्मिन् मृत्तिकां शुभाम् ॥ पिटकं पूरयेत्तस्मिन् इष्टकाग्रावपांशुभिः ॥’ अत्र मृत्तिकेष्टकाग्रावपांशूनां विकल्पः । ‘परीक्षका नियोक्तव्यास्तुलामानविशारदाः । बणिजो हेमकाराश्च कांस्यकारास्तथैव च । कार्य्यः परीक्षकैर्नित्यमवलम्बसमो धटः ॥ उदकञ्च प्रदातव्यं धटस्योपरि पण्डितैः । यस्मिन्न प्लवते तोयं स विज्ञयः समो धटः ॥ तोलयित्वा नरं पूर्व्वं पश्चात्तमवतार्य्य तु । धटस्तु कारयेन्नित्यं पताकाध्वजशोभितम् ॥ तत आवाहयेद्देवान् विधिनानेन मन्त्रवित् । वादित्रतूर्य्यघोषैश्च गन्धमाल्यानुलेपनैः ॥ प्राङ्मुखः प्राञ्जलिर्भूत्वा प्राड्विवाकस्ततो वदेत् ॥’ प्राड्विवाकसमाख्या तु पृच्छतीति प्राट् विवेचय- तीति विवाकः । इति व्यवहारमातृका ॥ * ॥ तथा च बृहस्पतिः । ‘विवादे पृच्छति प्रश्नं प्रतिपन्नं तथैव च । प्रियपूर्व्वं प्राग्वदति प्राड्विवाकस्ततः स्मृतः ॥’ वस्तुतस्तु प्राड्विवाकसमाख्यामाह कात्यायनः । ‘व्यवहाराश्रितं प्रश्नं पृच्छति
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬