धनदानुज पु० ६ त० । १ रावणे शब्द च० २ कुम्भकर्ण्णादौ च तेषां विश्रवसः कैकसीतो जातत्वात् तथात्वं तत्कथा । “सा त्वं मुनिवरं श्रेष्ठं प्रजापतिकुलोद्भवम् । भज वि- श्रवसं पुत्रि पौलस्त्यं वरय स्वयम् । ईदृशास्ते भविष्यन्वि पुत्राः पुत्रि! न संशयः । तेजसा भास्करसमो यादृशोऽयं धनेश्वरः । सा तु तद्वचनं श्रुत्वा कन्यका पितृगौर- वात् । तत्र गत्वा च सा तस्थौ विश्रवा यत्र तप्यते” । “कन्यया त्वेवमुक्तस्तु विश्रवा मुनिपुङ्गवः । उवाच कैकसीं भूयः पूर्णेन्दुरिव रोहिणीम । पश्चिमो यस्तव- सुतो भविष्यति शुभानक्षे! । मम वंशानुरूपः स धर्मात्मा च न संशयः । एवमुक्ता तु सा कन्या राम! कालेन के- नचित् । जनयामास वीमत्सं रक्षोरूपं सुदारुणम् । दशग्रीवं महादंष्ट्रं नीलाञ्जनचयोपमम् । ताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम्” “तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः । प्रमाणाद् यस्य किपुलं प्रमाणं नेह विद्यते । ततः शूर्पणखा नाम संजज्ञे विकृतानना । विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः” “भुजमूर्द्ध्वोरुबाहुल्यात् एकोऽपि धनदानुजः” रघुः ।
📄 मूल मुद्रित पृष्ठ (3838,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।