🕉️ 28 November 2026, Saturday · 07:25:52 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

धान्यधेनु
dhānyadhenu
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
धान्यधेनु संज्ञा स्त्री॰ [सं॰] पुराणानुसार दान के लिये एक कल्पित गाय जिसकी कल्पना धान की ढेरी में की जाती है । विशेष— इसका दान बिषुव संक्रांति या कार्तिक मास में सब प्रकार का सुख, सौभाग्य और पुराण संचय करने के लिये होता है ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
धान्य—धेनु f. a heap of rice (like a cow) to be presented to a Brāhman, MW. (cf. -गव).
📄 मूल मुद्रित पृष्ठ (514,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
धान्यधेनु स्त्री दानार्थे धान्यकल्पितायां गव्याम् । तद्विधिः “विषुवे चायने वापि कार्त्तिक्यान्तु विशेषतः । तमिदानीं प्रवक्ष्यामि धान्यधेनुविधिं परम् । यां दत्त्वा सर्वपापेभ्यः शशाङ्क इव राहुणा” (मुच्यते इति शेषः) । दशधेनुप्रदानेन यत्फलं राजसत्तम! । तत्सर्वमेव प्राप्नोति व्रीहिधेनुप्रदो नरः । कृष्णाजिनं ततः कृत्वा प्राग्वद्वत्संन्यसेद्बुधः । गो- मयेनानुलिप्ताङ्गीं शोभनां वस्त्रसंयुताम् । पूजयेद्वेदिमध्ये स्याद्रोणैश्चापि चतुष्टयैः । मध्यमा च तदर्द्धेन वि- त्तशाठ्यं न कारयेत् । चतुर्थांशेन धेन्वा वै वत्सन्तु परि- कल्पयेत् । कर्त्तव्ये रुक्मशृङ्गे तु राजतक्षुरसंयुता । गोरूधः पूर्ववद्घ्राणमगुरुचन्दनन्तथा । मुक्ताफलमया दन्ता घृतक्षौद्रमयं मुखम् । प्रशस्तपत्रश्रवणा कांस्यदोह- नकान्विता । इक्षुयष्टिमयाः पादाः क्षौमपुच्छसमन्विता । नानाफलसमोपेता रत्नगर्भसमन्विता । पादुकोपानहौ- छत्रे भाजमं दर्पणं तथा । इत्येवं रचयित्वा तां कृत्वा दीपार्चनादिकम् । पुण्यकालञ्च संप्राप्य स्नातः शुक्लाम्बरो गृही । त्रिःप्रदक्षिणमावत्य मन्त्रेणानेन कीर्त्त- येत् । तव विप्र! महाभाग! वेदवेदाङ्गपारग! । या मेताञ्च मया दत्तां गृह्णीष्व त्वं द्विजोत्तम! प्रीयतां [] मम देवेशो भगवान् मधुसूदनः । त्वमेका लक्ष्मीर्गो- विन्दे स्वाहा चासि विभावसोः । शक्रे शचीतु वि- ख्याता मेधा मुनिषु सत्तमा । तस्मात् सर्वमयी देवी धा- न्यरूपेण संस्थिता । एवमुच्चार्य्य तां धेनुं ब्राह्मणाय नि- वेदयेत् । दत्त्वा प्रदक्षिणं कृत्वा तं क्षमाप्य द्विजोत्त- मम् । यावच्च पृथिवी सर्वा वसुरत्नानि भूपते! । तावत् पुण्यमयाधिक्यं व्रीहिधेनोश्च तत्फलम् । तस्मान्न- रेन्द्र! दातव्या भुक्तिमुक्तिफलप्रदा । इह लोके च सौ- भाग्यमायुरारोग्यवर्द्धनम् । विमानेनार्कवर्णेन किङ्कि- णीरत्नमालिना । स्तूयमानोऽप्सरोभिश्च प्रयाति शिव- मन्दिरम् । यावच्च स्मरते जन्म तावत् स्वर्गे मही- यते । ततः स्वर्गात् परिभ्रष्टो जम्बुद्वीपपतिर्भवेत् । एवं हरेण प्रोद्गीर्णं श्रुत्वा वाक्यं नरोत्तमः । सर्व- पापविशुद्धात्मा रुद्रलोके महीयते” । वराहपुराणोक्तः ।
📄 मूल मुद्रित पृष्ठ (3881-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
धान्यधेनुः, स्त्री, (धान्यनिर्म्मिता धेनुः ।) दानार्थ- धान्यनिर्म्मितधेनुः । यथा, -- “विषुवे चायने वापि कार्त्तिक्यान्तु विशेषतः । तदिदानीं प्रवक्ष्यामि धान्यधेनुविधिं परम् ॥ यां दत्त्वा सर्व्वपापेभ्यः शशाङ्क इव राहुतः ॥ दशधेनुप्रदानेन यत् फलं राजसत्तम ! । तत् सर्व्वमेवमाप्नोति व्रीहिधेनुप्रदो नरः ॥ कृष्णाजिनं ततः कृत्वा प्राग्वद्वत् संन्यसेद्बुधः । गोमयेनानुलिप्तायां शोभनां वस्त्रसंयुताम् ॥ पूजयेद्वेदिमध्ये तु वेदनिर्घोषमङ्गलैः ॥ उत्तमा धान्यधेनुः स्याद्द्रोणश्चापि चतुष्टयैः । मध्यमा च तदर्द्धेन वित्तशाठ्यं न कारयेत् ॥ चतुर्थांशेन धेन्वा वै वत्सन्तु परिकल्पयेत् । कर्त्तव्ये रुक्मशृङ्गे तु राजतक्षुरसंयुता ॥ गोरुधः पूर्व्ववद्घ्राणमगुरुञ्चन्दनन्तथा । मुक्ताफलमया दन्ता घृतक्षौद्रमयं मुखम् ॥ प्रशस्तपत्रश्रवणा कांस्यदोहनकान्विता । इक्षुयष्टिमयाः पादाः क्षौमपुच्छसमन्विता ॥ नानाफलसमोपेता रत्नगर्भसमन्विता । पादुकोपानहौ छत्रे भाजनं तर्पणं तथा ॥ इत्येवं रचयित्वा तां कृत्वा दीपार्च्चनादिकम् । पुण्यकालञ्च संप्राप्य स्नातः शुक्लाम्बरो गृही । त्रिः प्रदक्षिणमावृत्य मन्त्रेणानेन कीर्त्तयेत् ॥ [] तव विप्र ! महाभाग ! वेदवेदाङ्गपारग ! । यामेताञ्च मया दत्तां गृह्णीष्व त्वं द्विजोत्तम ! । प्रीयतां मम देवेशो भगवान्मधुसूदनः ॥ त्वमेका लक्ष्मीर्गोविन्दे स्वाहा या च विभावसौ । शक्रे शचीति विख्याता मेधा मुनिषु सत्तम ! ॥ तस्मात् सर्व्वमयी देवी धान्यरूपेण संस्थिता । एवमुच्चार्य्य तां धेनुं ब्राह्मणाय निवेदयेत् ॥ दत्त्वा प्रदक्षिणं कृत्वा तं समाप्य द्विजोत्तमम् । यावच्च पृथिवी सर्व्वा वसुरत्नानि भूपते ! । तावत् पुण्यं समाधिक्यं व्रीहिधेनोश्च तत् फलम् ॥ तस्मान्नरेन्द्र ! दातव्या भुक्तिमुक्तिफलप्रदा । इह लोके च सौभाग्यमायुरारोग्यवर्द्धनम् ॥ विमानेनार्कवर्णेन किङ्किणीरत्नमालिना । स्तूयमानोऽप्सरोभिश्च प्रयाति शिवमन्दिरम् ॥ यावच्च स्मरते जन्म तावत् स्वर्गे महीयते । ततः स्वर्गात् परिभ्रष्टो जम्बुद्वीपपतिर्भवेत् ॥ एवं हरेण चोद्गीर्णं श्रुत्वा वाक्यं नरोत्तम । सर्व्वपापविशुद्धात्मा रुद्रलोके महीयते ॥” इति वराहपुराणम् ॥
📄 मूल मुद्रित पृष्ठ (2-793-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬