धुन्धु पु० मधुराक्षसस्यापत्ये “उतङ्क उवाच । भवता रक्षणं कार्य्यं तत्तावत् कर्तुमर्हसि । निरुद्विग्नस्तपश्चर्तुं न हि शक्नोमि पार्थिव! । ममाश्रमसमीपे वै समेषु मरु- धन्वसु । समुद्रो वालुकापूर्ण उज्जानक इति श्रुतः । देवतानामबध्यश्च महाकायो महाबलः । अन्तर्भूमि- गतस्तत्र बालुकान्तर्हितो महान् । राक्षसस्य मधोः पुत्रो धन्धुर्नाम महासुरः । शेते लोकविनाशाय तप आस्थाय दारुणम् । संवत्सरस्य पर्य्यन्ते स निश्वासं विमुञ्चति । यदा तदा भूश्चलति सशैलवनकानना । तस्य निश्वासवातेन रज उद्धूयते महत् । आदित्य- पथमावृत्य सप्ताहं भूमिकम्पनम् । सविस्फुलिङ्गं सा- कारं सधूममतिदारुणम् । तेन तात! न शक्नोमि [] तस्मिन् स्थातुं स्व आश्रमे । तं मारय महाकामं लोकानां हितकाम्यया । लोकाः सुस्था भवन्त्वद्य तस्मिन् विनिहते त्वया । त्वं हि तस्य बधायैकः समर्थः पृथिवी- पते! । विष्णुना च वरो दत्तो मह्यं पूर्वयुगेऽनघ! । यस्तं महासुरं रौद्रं हनिष्यति महाबलम् । तस्य त्वं वरदानेन तेज आप्याययिष्यसि । न हि धुन्धुर्महा- तेजास्तेजसाऽल्पेन शक्यते । निर्दग्धुं पृथिवीपाल! दिव्यवर्षशतैरपि । वीर्य्यं हि सुमहत्तस्य देवैरपि सुरा- सदम् । स एवमुक्तो राजर्षिरुतङ्केन महात्मना । कुवलाश्वं सुतं प्रादात्तस्मिन् धन्धुविवर्हणे” हरिवं० ११ अ०
📄 मूल मुद्रित पृष्ठ (3894-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।