🕉️ 26 November 2026, Thursday · 01:33:44 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

धुन्धुमार
dhundhumāra
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
धुन्धु—मार m. ‘slayer of Dh˚’, N. of Kuvalāśva, MBh. &c. (-त्व n., Hariv. 672)
a son of Tri-śaṅku and father of Yuvanāśva, R.; Daś.
the cochineal insect, L.
a kind of plant (= गृह-धूम), L.
a house-lizard (?), W.
the smoke of a house (?), ib.
📄 मूल मुद्रित पृष्ठ (517,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
धुंधुमारः 1 A kind of insect( इंद्रगोप). --2 The smoke of a house.
📄 मूल मुद्रित पृष्ठ (0598-b)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
धुन्धुमार पु० धुन्धुं मारयति मारि--अण् उप० स० । राज- भेदे “राजा हि वीर्य्यवांस्तात! इक्ष्वाकुरपराजितः । वृहदश्व इति ख्यातो भविष्यति महीपतिः । तस्य पुत्रः शुचिर्दान्तः कुबलाश्व इति श्रुतः । स योगबलमास्थाय- मामकम् पार्थिवोत्तमः । शासनात्तव विप्रर्षे! धुन्धु- मारो भविष्यति” भा० व० २०० अ० । “वृहदश्व उवाच । भगवन्! न्यस्तशस्त्रोऽहमयन्तु तनयो मम । भविष्यति द्विजश्रेष्ठ! धुन्धुमारो न संशयः । स तं व्यादिश्य तनयं राजर्षिर्द्धुन्धुमारणे । जगाम पर्वतायैव तपसे संशितव्रतः । कुबलाश्वस्तु पुत्राणां शतेन सह पार्थिवः । प्रायादुतङ्कसहितो धुन्धोस्तस्य निवर्हणे । तमाविशत्तदा विष्णुस्तेजसा भगवान् प्रभुः । उतङ्कस्य नियोगाद्वै लोकानां हितकाम्यया । तस्मिन् प्रयाते दुर्द्धर्षे दिवि शब्दो महानभूत् । एष श्रीमान- सह्योऽद्य धुन्धुमारो भविष्यति । दिव्यैर्माल्यैश्च तं देवाः समन्तात् समवाकिरन् । देवदुन्दुभयश्चैव प्रणेदुर्भरत- र्षभ! । स गत्वा जयतां श्रेष्ठस्तनयैः सह वीर्य्यवान् । समुद्रं स्वानयामास बालुकापूर्णमव्ययम । नारायणेन कौरव्य! तेजसाऽप्यायितस्तदा । स वभूव महातेजा भूयो बलसमन्वितः । तस्य पुत्रैः स्वनद्भिश्च बालुकान्तर्हितस्तदा । धुन्धुरासादितो राजन्! दिशमावृत्य पश्चिमाम् । मुख- जेनाग्निना क्रोधाल्लोकानुद्वर्त्तयन्निव । वारि सुस्राव वेगेन महोदधिरिवोदये । सोमस्य, भरतश्रेष्ठ! धारोर्मि- कलिलं महत् । तस्य पुत्रशतं दग्धं त्रिभिरूनन्तु रक्षसा । ततः स राजा कौरव्य! राक्षसं तं महाव- लम् । आससाद महातेजा धुन्धुं धुन्धुनिवर्हणः । तस्य वारिमयं वेगमपिबत् स नराधिपः । योगी यो- गेन वह्निं स शमयामास वारिणा । निहत्य तं महा- [] कायं बलेनोदकराक्षसम् । उतङ्कं दर्शयामास कृतकर्मा नराधिपः” हरिवं० ११ अ० २१४१ पृष्ठे कुबलाश्वशब्दे अस्य चरितानीति यत् लिखितं तत् प्रमादात् किन्तु धुन्धुमारशब्द तच्चरितानि इत्येव तत्र पाठो बोध्यः । एतच्छब्दे च हरिवं० तच्चरितादिकथाऽत्रोक्ता २ शक्रगोपे ३ गृहधूमे ४ पदालिके च मेदि० ।
📄 मूल मुद्रित पृष्ठ (3895-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
धुन्धुमारः, पुं, (धुन्धुं तन्नामकं राक्षसं मारय- तीति । मारि + अण् ।) कुवलयाश्वराजः । स तु बृहदश्वपुत्त्रः । इति पद्मपुराणम् ॥ (अस्य धन्धुमारणकथा यथा, हरिवंशे । ११ । ३९ -- ५५ । “स एवमुक्तो राजर्षिरुतङ्केन महात्मना । कुवलाश्वं सुतं प्रादात् तस्मै धुन्धुनिवारणे ॥ बृहदश्व उवाच । भगवन् ! न्यस्तशस्त्रोऽहमयन्तु तनयो मम । भविष्यति द्विजश्रेष्ठ ! धुन्धुमारो न संशयः ॥ स तं व्यादिश्य तनयं राजर्षिर्धुन्धुमारणे । जगाम पर्व्वतायैव तपसे संशितव्रतः ॥ कुवलाश्वस्तु पुत्त्राणां शतेन सह पार्थिव ! । प्रायादुतङ्कसहितो धुन्धोस्तस्य परिग्रहे ॥ तमाविशचदा विष्णुर्भगवांस्तेजसा विभुः । उतङ्कस्य नियोगाद्वै लोकानां हितकाम्यया ॥ तस्मिन प्रयाते दुर्द्धर्षे दिवि शब्दो महानभूत् । एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति ॥ दिव्यैर्म्माल्यैश्च तं देवाः समन्तात् समवाकिरन् । देवदुन्दुभयश्चापि प्रणेदुर्भरतर्षभ ! ॥ [] स गत्वा जयतां श्रेष्ठस्तनयैः सह वीर्य्यवान् । समुद्रं खानयामास बालुकार्णवमव्ययम् ॥ नारायणेन कौरव्य ! तेजसाप्यायितः स वै । बभूव सुमहातेजा भूयो बलसमन्वितः ॥ तस्य पुत्त्रैः खनद्भिस्तु बालुकान्तर्हितस्तदा । धुन्धुरासादितो राजन् ! दिशमाश्रित्य पश्चिमाम् ॥ मुखजेनाग्निना क्रोधाल्लोकानुद्वर्त्तयन्निव । वारि सुस्राव वेगेन महोदधिरिवोदये ॥ सोमस्य भरतश्रेष्ठ ! धारोर्म्मिकलिलं महत् । तस्य पुत्त्रशतं दग्धं त्रिभिरूणन्तु रक्षसा ॥ ततः स राजा कौरव्य ! राक्षसं तं महाबलम् । आससाद महादेजा धुन्धुं धुन्धुनिवर्हणः ॥ तस्य वारिमयं वेगमापीय स नराधिपः । योगी योगेन वह्निञ्च शमयामास वारिणा ॥ निहत्य तं महाकायं बलेनोदकराक्षसम् । उतङ्कं दर्शयामास कृतकर्म्मा महायशाः ॥ उतङ्कस्तु वरं प्रादात् तस्मै राज्ञे महात्मने । अददाच्चाक्षयं वित्तं शत्रुभिश्चापराजयम् ॥ धर्म्मे रतिञ्च सततं स्वर्गे वासं तथाक्षयम् । पुत्त्राणाञ्चाक्षयाल्लोँकान् स्वर्गे ये राक्षसा हताः ॥” * ॥) शक्रगोपः । गृहधूमः । पदालिकः । इति मेदिनी । रे, २७० ॥
📄 मूल मुद्रित पृष्ठ (2-799-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬