धुनि(नी) स्त्री धुनोति वेतसादीन् धु--निक् धूनयति वेतसान् धूनि--इन् पृषो० ह्रस्वो वा ङीप् वा । १ नदीमात्रे अमरः । “दिवे दिवे धुनयो यन्त्यर्थम्” ऋ० २ । ३० । २ “धुनयोनद्यः” भा० । “स्वर्धून्यभून्नभसि सा पतती निमार्ष्टि” भाग० ८ । २१ । ६ २ असुरभेदे पु० “स्वप्नेनाभ्युप्य चुमुरिं धुनिञ्च” २ । १५ । ९ । “चुमुरिं धुनिम् एतन्नामासुरौ” भा० ३ कम्पके त्रि० ४ जलप्रति- रोधके असुरभेदे पु० “त्वं धुनिरिन्द्र! धुनिमतीः” ऋ० १ । १७५ । ९ “हे इन्द्र! त्वं धुनिः कम्पयिता शत्रूणामसि अतो धुनिमतीः कम्पनोपेततरङ्गवती । अथ वा धुनिर्नाम जलप्रतिरोधकार्यसुरः स एव प्रतिरोघकतयास्ति यासां तादृशीरपः” भा० तरङ्गस्य कम्पनवत्त्वात् धुनित्वम् । धून- यति धू--णिच्--नुक् इन् पृषो० ह्रस्वः । सप्तानां मरुतां मध्ये ५ मरुद्भेदे । ते च मरुतः “उग्रश्च १ भीमश्च २ धान्तश्च ३ धुनिश्च ४ । सासह्वां ५ श्चाभियुग्वा ६ च विक्षिपः ७ स्वाहा” यजु० ३९ । ७ उक्ताः ।
📄 मूल मुद्रित पृष्ठ (3894,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।