धृतिहोम पु० धृत्याद्यष्टकोद्देशेको होमः । विवाहाङ्गे होमभेदे “उत्थाप्य कुमारं ध्रुवा आज्याहुतीर्जुहोति” गोभिलः “अष्टाविह धृतिहोमाः ध्रुवा आवश्यकाः । कथञ्चिद् भर्तृगृहगमनाभावेऽपि श्वशुरगृहे निवा- सेऽपि अवश्यं होतव्याः इति । अत्र “इह धृतिः स्वाहा” इत्यादिप्रयोगः । न तु स्वाहायोगे चतुर्थी “धृतिहोमे न प्रयुञ्ज्यात् गोनामसु तथा- ष्टसु । चतुर्थीमघ्र्य इत्येतद्गोनामसु हि हूयते” इति छन्दोगपरिशिष्टात् । धृतिहोमे धृत्यष्टकहोमे” स० स्का० त० रघु० । स च तत्पद्धतौ भवदेवोक्तो यथा “ततः पतिः कुमारमुत्थाप्य पूर्ववत् कुशण्डिकोक्तविधाने धृतिनामा- नमग्निं संस्थाप्य समित्प्रक्षेपान्तं व्यस्तसमस्तम- हाव्याहृतिहोमं कृत्वा अष्टाहुतीर्जुहुयात् । अष्टानां मन्त्राणाम् ऋष्यादयः साधारणाः । प्रजापति रृषि- र्वृहती छन्दो वधूर्देवता धृतिहोमे विनियोगः । ॐ इह धृतिः स्वाहा १ । ॐ इह स्वधृतिः स्वाहा २ । ॐ इह रतिः स्वाहा ३ । ॐ इह रमस्व स्वाहा ४ । ॐ मयि धृतिः स्वाहा ५ । ॐ मयि स्वधृतिः स्वाहा ६ । ॐ मयि रतिः स्वाहा ७ । ॐ मयि रमस्व स्वाहा ८” ।
📄 मूल मुद्रित पृष्ठ (3907,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।