🕉️ 27 November 2026, Friday · 08:55:40 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

धेनुमूल्य
dhenumūlya
🟢 वाचस्पत्यम्
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
धेनुमूल्य न० ६ त० । प्रायश्चित्तरूपधेनुदानस्य निष्क्रय- रूपे मूल्यभेदे तच्च प्रायश्चित्ततत्त्वे व्यवस्थापितं यथा “अथ धेनुमूल्यव्यवस्था । संवर्त्तः “प्राजापत्य- व्रताशक्तौ धेनुं दद्यात् पयस्विनीम् । धेनोरभावे दातव्यं तुल्यं मूल्यं न संशयः” । पयस्विनीमिति विशेषणं दुग्धोपयोगाय सा च वत्सं विना न सम्भवति । अतः सवत्साया एव दानं मुख्यं तदभावे यथोचितं तन्मूल्यं तदभावे पुराणत्रयम् । “द्वात्रिंशत्पणिका गावोवत्सः पौराणिको भवेत्” कात्यायनवचनात् । षटुत्रिंशन्मतमिति कृत्वा पठन्ति “धेनुः पञ्चभिराद्यानां मध्यानां त्रिपुराणिकी । कार्षापणैकमूल्या हि दरि- द्राणां प्रकीर्त्तिता” । अत्र पुराणत्रयलभ्यं गोतमीक्तं हिरण्यादिकमेव देयं तद् यथा “हिरण्यं गौर्वासो- ऽश्वोभूमिस्तिला घृतषन्नमिति देयानि” । एतान्येवा- नादेशे विकल्पेन क्रियेरन्निति अन्यथा इदमनर्थकं स्यात् इति” प्रायश्चित्तविवेकः । तच्चिन्त्यं हिरण्यं गौरित्यादिना गोर्विकल्पकत्वेन हिरण्यादिकमुक्तं न तु गोमूल्यत्वेन ततश्च । “द्वात्रिंशत्पणिका गावः” इत्यादि- वचनात् कार्षापणत्रयदानमेव युक्तम् । तत्र “ताम्रिकः कार्षिकः पणः” इति याज्ञवल्क्यवचनेन “गुञ्जाः पञ्चा- द्यमाषकः । ते षोडशाक्षः कर्षोऽस्त्री पलं कर्षचतु- ष्टयं” इत्यमरसिंहोक्तेन अशीतिरत्तिकापरिमितताम्रे पणशब्दः सङ्केतितः । स च तावत्संख्यकवराटकैर्लभ्यत इति वराटकेष्वपि तथा व्यवहारः । एतन्मूलकं भवि- ष्यमत्स्यसूक्तयोर्वचनम् । “अशीतिभिर्वराटकैः पण इत्य- भिवीयते । पुराणं ते षोडशभिः रजतं सप्तभिस्तु नैः” । गोतमोक्तपरिगणनीयनियमस्तु अनादिष्टे प्राथमिककल्पाय आदिष्टे तत्तद्रव्यप्राधान्यं हिरण्यादे रानुकल्पिकत्वमिति विशेषः । अतएव यमेन सामान्यतो दानमुक्तं यथा “शोषणेन शरीरस्य तपसाऽध्ययनेन च । पापकृन्मुच्यते पापात् दानेन च दमनन च” । अतः कार्षापणत्रयलभ्यं रजतादि दीयते । यत्तु मिता- क्षरायाम् “गवासभावे निष्कः स्याचदर्द्धं पादएव [] च” इति स्मरणान्निष्कादिकमुक्तं तच्छक्ततमाद्यपेक्षया तत्रापि “चतुःसौवर्णिको निष्क्रः” इति मनूक्तनिष्कस्य न ग्रहणम् अत्यन्तविसदृशमूल्यत्वात् साष्टशतसुवर्णनिष्क- वत् । किन्तु दीनारनिष्कस्य ग्रहणं तथा चामरः । “साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले” दीना- रेऽपि च निष्कोऽस्त्री” इति । दीनार उक्तो विष्णु- गुप्तेन “दीनारोरोपकैरष्टाविंशत्या परिकीर्त्तितः । सुवर्णसप्ततितमो भागोरोपक उच्यते” । सुवर्णस्त्वशी- तिरत्तिकापरिमितं हेम । तथा च मनुः । “पञ्चकृष्ण- लकोमाषस्ते सुवर्णस्तु षोडश” इति अत्र काञ्चनं व्यक्त- माहामरसिंहः । “सुवर्णविस्तौ हेम्नोऽक्षः” इति । एवञ्च सप्तमांशाधिकहेमरत्तिका रोपकः तदष्टाविंशत्या द्वात्रिंशद्रत्तिकापरिमितोदीनारो निष्कः” प्रा० त० रघु० ।
📄 मूल मुद्रित पृष्ठ (3910-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬