नकारः व्यञ्जनवर्णभेदः तवर्गीयपञ्चमवर्णः अस्योच्चारण- स्थानं दन्तमूलं नासिका च । “दन्त्याऌतुलसाः स्मृताः” “अमोऽनुनासिका नह्रौ” इति च शिक्षोक्तेः । तस्योच्चारणे आभ्यन्तरप्रयत्नः जिह्वाग्रेण दन्तमूलस्य सम्यक्स्पर्शः । अत- एव व्यञ्जनानां स्पर्शवर्णत्वव्यवहारः । बाह्यप्रयत्नाश्च संवार नादघोषा अल्पप्राणश्च “खयां यमाः खयः + क पौ विसर्गः स्वर एव च । एते श्वासानुप्रदाना अघोषाश्च विवृण्वते । कण्ठम्, अन्ये तु घोषाः स्युः संवारा नादभागिनः । अयुग्मा वर्गयमगा यणश्चाल्पासवः स्मृताः” शिक्षा अस्य वाचकशब्दा वर्णामिधनातन्त्रे उक्ता यथा “नो गर्जिनी क्षमा सौरिर्वारुणी विश्वपावनी । मेषश्च सविता नेत्रं दन्तुरो नारदोऽञ्जनः । ऊर्द्ध्वगामी द्वि- रण्डश्च वामपादाङ्गुलेर्नखः । वैनतेयः स्तुतिर्वत्मभवाऽनर्वा निरागमः । वामनो ज्वालिनी दीर्घो निरीहः सुगति- र्वियत् । शब्दात्मा दीर्घघोणा च हस्तिनापुरमेचकौ । गिरिनायकनीलौ च शिवोऽनादिर्महामतिः” । अस्य ध्यानं यथा “ध्यानमस्य नकारस्य वक्ष्यते शृणु भाविनि! । दलिताञ्जनवर्णाभां ललज्जिह्वां सुलो- चनाम् । चतुर्भुजां कोटराक्षीं चारुचन्दनचर्चिताम् । कृष्णाम्बरपरीधानामीषद्धास्यमुखीं सदा । एवं ध्यात्वा नकारन्तु तन्मन्त्र दशधा जपेत्” तत्स्वरूपं यथा “नकारं शृणु चार्वङ्गि । कोटिविद्युल्लताकृतिम् । पञ्च- देवमयं वर्णं स्वयं परमकुण्डली । पञ्चप्राणात्मकं वर्णं हृदि भावय पार्वति!” कामधेनुतन्त्रम् । मातृकावर्णन्यासे अस्य वामपादाङ्गुलिनखे न्यास्यता । काव्यादौ प्रथमप्रयोगे फलं यथा “दोधः सौख्यं मुदं नः” वृ० व० ढीकोक्तम् । धातुपाठे ये णादितया पठितास्ते प्रयोगकाले नादि- पूर्वका भवन्ति, सति निमित्ते पुनर्णत्वमापद्यन्ते । ये च नादितया पठितास्ते न णत्वमापद्यन्ते इति विवेकः ।
📄 मूल मुद्रित पृष्ठ (3925,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।