नगरमार्ग पु० ६ त० । राजमार्गे तत्करणप्रकारादि औशन- सनीति परिशिष्टे उक्तं यथा “राजमार्गास्तु कर्त्तव्या- चतुर्दिक्षु नृपालयात् । उत्तमो राजमार्गस्तु त्रिंशद्धस्त- मिता भवेत् । मध्यमो षिंशतिकरो दशपञ्चकरोऽधमः । पण्यमार्गास्तथा चैत्ये पुरग्रामादिषु स्थिताः । करत्रया- त्मिका पद्या वीथिः पञ्चकरात्मिका । मार्गो दशकरः प्रोक्तो ग्रामेषु नगरेषु च । प्राक्पश्चाद्दक्षिणोदक्स्थान् ग्राममध्यात् प्रकल्पयेत् । पुरं दृष्ट्वा राजमार्गान् सुबहून् कल्पयेन्नृपः । न वीधिं न च पद्यां हि राजधान्यां प्रकल्पयेत् । षड्योजनान्तरेऽरण्ये राजमार्गन्तथो- त्तमम् । कल्पयेद् मध्यमं मध्ये तयोर्मध्ये तथाऽधमम् दशहस्तीत्मकं नित्यं ग्रामे ग्रामे नियोजयेद् । कूर्म- पृष्ठा मार्गभूमिः कार्य्या ग्राम्यैः सुपेतुका । कुर्य्यान्मा- र्गान् पार्श्वखातान् निर्गमार्थं जलस्य च । राजमार्ग- मुखानि स्युर्गृहाणि सकलान्यपि । गृहपूर्वे सदा वीथिं मलनिर्हरणस्थलम् । पङ्क्तिद्वयगतानोह गृ- हाणि कारयेत् तथा । भार्गान् सुधाकर्करैर्वा घटितान् प्रतिवत्सरम् । अभियुक्तनिरुद्धैर्वा कुर्य्याद्ग्रामजनै- र्नृपः । ग्रामद्वयान्तरे चैव पान्त्रशालां प्रकल्पयेत् । नित्यं सम्मार्जितां चैव ग्रामपैश्च सुगोपिताम् । तत्रा- गतं तु संपृच्छेत् पान्यं शालाधिपः सदा । प्रयातोऽसि कुतः स्यानात् क्व गमित्यसि तत् वद । ससहायोऽसहायो वा सशस्त्रः किमबाहनः । का जातिः किं कुलं नाम [] स्थितिः कुत्रास्ति ते चिरम् । इति पृष्ट्वा लिखेत् सायं शस्त्रं तस्य प्रगृह्य च । सावधानमना भूत्वा स्वापं कुर्वीत स्वापयेत् । तत्रस्थान् गणयित्वा तु शालाद्वारं पिधाय च । संरक्षयेद् यामिकैस्तु प्रभाते तान् प्रबो- धयेत् । अजानरवृषाश्वोष्ट्रगजेभ्यः क्रमतो हरेत् । भृतिं पणार्द्धवृद्ध्या तु रक्षार्थं मार्गशालयोः । शस्त्रं दद्याच्च गणयेत् द्वारमुद्द्वाट्य मोचयेत् । कुर्य्यात् सहायं सीमान्तं तेषां ग्रामजनं सदा” ।
📄 मूल मुद्रित पृष्ठ (3937-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।