नयनाभिघात पु० ६ त० । सुश्रुतोक्ते नयनाभिहननरूपे रोगभेदे यथोक्तम् “अथातो नयनाभिधातप्रतिषेधं व्या- ख्यास्यामः । अभ्याहते तु नयने बहुधा नराणां संरम्भरागतुमुलासु रुजासु धीमान् । नस्यप्रलेपपरि- षेचनतर्पणाद्यमुक्तं पुनः क्षतजपित्तजशूलपथ्यम् । दृष्टिप्रसादजननं विधिमाशु कुर्य्यात्स्निग्धैर्हिमैश्च मधुरैश्च तथा प्रयोगैः । स्वेदाग्निधूमभयशोकरुजाभिघातैरभ्या- हतावपि तथैव भिषक् चिकित्सेत् । सद्योहते नयन एष विधिस्तदूर्द्ध्वं स्यन्देरितो भवति दोषमवेक्ष्य कार्यः । अभ्याहतं नयनमीषदथास्य वाष्पसंस्वेदितं भवति तन्न- रुजं क्षणेन । साध्यं क्षतं पटलमेकमुभे तु कृच्छ्रे त्रीणि क्षतानि पटलानि विवर्जयेत्तु । स्यात्पिच्चिटञ्च नयनं ह्यति चावसन्नं स्रस्तं च्युतञ्च हतदृक्च भवेत्तु याप्यम् । विस्तीर्णदृष्टितनुरागमसत्प्रदर्शि साध्यं यथास्थितमनाबि- लदर्शनञ्च । प्राणोपरोधवननक्षवकण्ठरोधैरुन्नम्यमाशु नयनं यदतिप्रविष्टम् । नेत्रे विलम्बिनि विधिर्विहितः पुरस्तादुच्छिंहनं शिरसि वार्य्यवसेचनञ्च । षट्सप्तति- र्नयनजा य इमे प्रदिष्टा रोगा भवन्त्यमहतां महताञ्च तेभ्यः । स्तन्यप्रकोपकफमारुतपित्तरक्तैर्बालाक्षिवर्त्मभव एव कुकूणकोऽन्यः । मृद्नाति नेत्रमतिकण्डुमथाक्षिकूट- नासाललाटमपि तेन शिशुः स नित्यम् । सूर्यप्रभां न सहते स्रवति प्रवृद्धं तस्याहरेद्रुधिरमाशु विनिर्लिखेच्च । क्षौद्रायुतैश्च कटुभिः प्रतिसारयेत्तु नातुः शिशोरभिहि- तञ्च विधिं विदध्यात्” ।
📄 मूल मुद्रित पृष्ठ (3969,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।