नरकजित् पु० नरकम् असुरभेदं जयति स्म जि--भूते क्विप् ६ त० । वासुदेवे श्रीकृष्णे “नैरृतो नरको नाम ब्रह्मणो वरद- र्पितः । अदित्याः कुण्डले मोहाज्जहार दितिनन्दनः । देवानां विप्रिये नित्यमृषीणाञ्च स वर्त्तते । तव चैवान्त- रप्रेक्षी जहि तं षापपूरुषम् । अयं त्वां गरुडस्तत्र प्रापयिष्यति कामगः । कामवीर्य्योऽतितेजस्वी वैनतेयो ऽन्वरीक्षगः । अबध्यः सर्वभूतानां भौमः स नरकोऽ- सुरः । निसूदयित्वा तं पापं क्षिप्रमागन्तुमर्हसि । इत्युक्तः पुण्डरीकाक्षो देवराजेन केशवः । प्रतिजज्ञे महाबाहु- र्नरकस्य निवर्हणम्” इत्युपक्रमे तयोर्युद्धवर्णनानन्तरम् “मुहूर्त्तं योधयामास नरकं मधुसूदनः । अथोग्रचक्रश्चक्रेख प्रदीप्तेनाकरोद्द्विधा । चक्रद्विधाकृतं तस्य शरीरमपत- द्भुवि । विभक्तं क्रकचेनेव गिरेः शृङ्गं द्विधाकृतम् । कृष्णमासाद्य देवेशं जगामास्तमिवांशुमान् । चक्रोत्क्षिप्त- निकृत्ताङ्गमुत्तमं पतितं रणे । वज्रेणेव विनिर्भिन्नं यथा गैरिकपर्वतम् । भूमिस्तु पतितं पुत्रं निरीक्ष्यादाय कुण्डले । उपातिष्ठत गोविन्दं वचनञ्चेदमब्रवीत् । दत्त- स्त्वयैव गोविन्द! त्वयैव विनिपातितः । यथेच्छसि तथा क्रीड बालक्रीडनकैरिव । इमे ते कुण्डले देव! प्रजां तस्यानुपालय” हरिवं० १२२ अ० तद्बधकथा
📄 मूल मुद्रित पृष्ठ (3973,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।