नरकमुक्तः, त्रि, (नरकात् मुक्तः ।) नरकागतः । यथा, -- “नरकात् प्रतिमुक्तस्तु पापयोनिषु जायते । पतितात् प्रतिगृह्याथ खरयोनिं व्रजेद्बुधः ॥ नरकात् प्रतिमुक्तस्तु कृमिर्भवति पातकी । उपाध्यायं व्यलीकन्तु कृत्वा श्वा भवति द्विजः ॥ तज्जायां मनसा वाञ्छंस्तद्द्रव्यं वाप्यसंशयम् । गर्द्दभो जायते जन्तुर्म्मित्रस्यैवापमानकृत् ॥ शत्रोरितरमाक्रुश्य शारिका संप्रजायते । पितरौ पीडयित्वा तु कच्छपत्वञ्च जायते ॥ भर्त्तुः पिण्डमुपाश्रन्तो हित्वान्यानि च सेवयेत् । [] सोऽपि मोहसमापन्नो जायते वानरो मृतः ॥ न्यासापहर्त्ता नरकात् विमुक्तो जायते कृमिः । असूयकश्च नरकान्मुक्तो भवति राक्षसः ॥ विश्वासहर्त्ता च नरो मीनयोनौ प्रजायते । यवधान्यानि हृत्वा तु जायते मूषिको मृतः ॥ परदाराभिमर्षात्तु वृको घोरोऽभिजायते । भ्रातृभार्य्याप्रसङ्गत्वे कोकिलो जायते नरः ॥ गुर्व्वादिभार्य्यागमनाच्छूकरो जायते नरः । यज्ञदानविवाहानां विघ्नकर्त्ता भवेत् कृमिः ॥ देवतापितृविप्राणामदत्वा योऽन्नमश्नुते । प्रमुक्तो नरकाद्वापि वायसः स प्रजायते ॥ ज्येष्ठभ्रात्रवमानाच्चः क्रौञ्चयोनौ प्रजायते । शूद्रश्च ब्राह्मणीं गत्वा कृमियोनौ प्रजायते ॥ तस्यामपत्यमुत्पाद्य काष्ठान्तःकीटको भवेत् । कृतघ्नः कृमिकः कीटः पतङ्गो वृश्चिकस्तथा ॥ अशस्त्रं पुरुषं हत्वा नरः संजायते खरः । कृमिः स्त्रीवधकर्त्ता च बालहन्तावजायते ॥ [] भोजनं चोरयित्वा तु मक्षिका जायते नरः । हृत्वान्नञ्चैव मार्ज्जारस्तिलहृच्चैव मूषिकः ॥ घृतं हृत्वा च नकुलः काको मद्गुरमामिषम् । मधु हृत्वा नरो दंशः पूपं हृत्वा पिपीलकः ॥ अपो हृत्वा तु पापात्मा वायसः संप्रजायते । हृते कांस्ये च हारीतः कपोतो वा प्रजायते ॥ हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते । कार्पासिके हृते क्रौञ्चो वह्निहर्त्ता वकस्तथा ॥ मयूरो वर्णकं हृत्वा शाकं पत्रञ्च जायते । जीवञ्जीवकतां याति रक्तवस्त्रापहृन्नरः ॥ छुच्छुन्दुरिः शुभान् गन्धान् वंशं हृत्वा शशो भवेत् । षण्डः कलापहरणे काष्ठहृत् काष्ठकीटकः ॥ पुष्पापहृद्दरिद्रस्तु पङ्गुर्यवापहृन्नरः । शाकहर्त्ता च हारीतस्तोयहर्त्ता च चातकः ॥ गृहहृन्नरकान् गत्वा रौरवादीन् सुदारुणान् । तृणगुल्मलतावल्लीत्वक्सारतरुतां व्रजेत् ॥ [] एष एव क्रमो दृष्टो गोसुवर्णादिहारिणाम् । विद्यापहारी मूकश्च गत्वा च नरकान् बहून् ॥ असमिद्धेऽग्नौ हुते च मन्दाग्निः संप्रजायते । परनिन्दाकृतघ्नत्वं परमर्म्मावघातनम् । नैष्ठुर्य्यं निर्घृणत्वञ्च परदारोपसेवनम् । परस्वहरणाशौचं देवतानाञ्च कुत्सनम् ॥ निकृत्य वञ्चनं नणां कार्पण्यञ्च नृणां बुधः । उपलक्षणादि जानीयात् मुक्तानां नरकादनु ॥” प्रसङ्गात् स्वर्गागतलक्षणमप्याह । “दया भूतेषु संवादः परलोकं प्रतिक्रिया । सत्यं भूतहिता चोक्तिर्व्वेदप्रामाण्यदर्शनम् ॥ गुरुदेवर्षिपूजा च केवलं साधुसङ्गमः । सत्क्रियाभ्यसनं मैत्री स्वर्गिणां लक्षणं विदुः ॥ अष्टाङ्गयोगविज्ञानात् प्राप्नोत्यात्यन्तिकं लयम् ॥” इति गारुडे कर्म्मविपाकः २२९ अध्यायः ॥
📄 मूल मुद्रित पृष्ठ (2-832-1b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।