🕉️ 19 November 2026, Thursday · 09:13:56 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

नरमेध
naramedha
🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
नर—मेध m. = -बलि, MBh.; R.
📄 मूल मुद्रित पृष्ठ (529,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
नरमेध पु० नरा मिध्यन्ते हिंस्यन्ते यत्र मिघ--आधारे घञ् ६ त० । पुरुषमेधाख्ये यज्ञभेदे स च यज्ञः यजु० ३० । ३१ अध्याययोर्दर्शितः तत्राधिकार्यादिकम् ३० अध्याये वेददीपे उक्तं यथा “ब्राह्मणराजन्ययोरतिष्ठाकामयोः पुरुषमेधसंज्ञको यज्ञो भवति । सर्वभूतान्यतिक्रम्य- स्थानमतिष्ठा । चैत्रशुक्लदशम्यामारम्भः । अत्र त्रयो- विंशतिर्दीक्षा भवन्ति द्वादशोपसुदः पञ्चसुत्या इति चत्वा- रिंशद्दिनैः सिध्यति । अत्र यूपैकादशिनी भवति एका- दशाग्नीषोमीयाः पशवो भवन्ति तेषां च प्रतियूप” मध्यमे वा यूपे यथेच्छं नियोजनम् । आज्येन सकृद्- गृहीतेन देव सवितिरिति प्रत्यृचं तिस्र आहुतीराहव- नीये जुहोति” । देवताभेदेन तत्रालभ्यपशुभेदास्तत्र “ब्रह्मणे ब्राह्मणमित्यादिना” अध्यायसमाप्तिपर्यन्ते- नोक्ताः अष्टाचत्वारिंशत्सङ्ख्यकाश्च ब्राह्मणादयो ब्रह्मा- द्यष्टाचत्वारिंशद्देवदेवत्याः पशवः “स एतं पुरुषमेघं पञ्चरात्रं यज्ञक्रतुमदृश्यत्तमाहरत्तेनायजत तेनेष्ट्वात्य- तिष्ठत् सर्वाणि भूतानीदं सर्वमभवदतितिष्ठति सर्वाणि भूतानीदं सर्वं भवति य एवं विद्वान् पुरुषमेधेन यजते यो वैतदेवं वेद । तस्य त्रयोविंशतिर्दीक्षाः । द्वाद- शोपसदः पञ्चसुत्याः स एष चत्वारिंशद्रात्रः सदीक्षोप- सत्कः” शत० ब्रा० १३ । ६ । १ । २ । अत्र पञ्चरात्रत्वोक्तिः पञ्चसुत्याभिप्रायेणेति न विरोधः । “त्रिंशदग्नीनहं ब्रह्म- न्नयजं यच्च नित्यदा । अष्टाभिः सर्वमेधैश्च नरमेधैश्चस- प्तिभिः” भा० अनु० १०३ अ० “राजसूयाश्वमेधौ च सर्वमेधञ्च भारत! । नरमेधञ्च नृपते! त्वमाहर युधिष्ठिर ।” भा० आश्र० ३ अ० । १८०३ पृ० कलिशब्दे दर्शितेन वृह- न्नारदीयवचनेन नरमेधस्य कलौ “दीर्घकालं ब्रह्मचर्य्य नरमेघाश्वमेधकावित्यनेन” निषेधेऽपि कलियुगोत्पन्न [] युधिष्ठिरं प्रति नरमेधाहरणे नियोजनं तु न विरुध्यते हरेःस्वर्गारोहानन्तरमेव कलेः प्रकर्षेण प्रवृत्त्यवगमात् ततः प्राक्काले यथाविधानं सर्वे धर्मा व्यवस्थिता इत्य- वगमाच्च तदूर्द्ध्वमेव कलेः प्रबलत्वात् वृहन्नारदीयाद्यु- क्तकलिवर्ज्यस्यावकाश इत्यवधेयम् । भूमौ श्रीकृष्ण- स्थितिपर्यन्तं कलेः प्रादुर्भावाभावश्च भागवते उक्तः तच्च वाक्यं कलिशब्दे १७९५ पृ० दर्शितम् । अतो युधि- ष्ठिरादीनां नरमेधाश्वमेधमहाप्रस्थानादिकं न विरुध्यते
📄 मूल मुद्रित पृष्ठ (3976-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
नरमेधः, पुं, (मिध हिंसायाम् + भावे घञ् । नराणां पुरुषाणां मेधो हिंसनं यत्र ।) नर- वधात्मकयज्ञविशेषः ॥ (यज्ञोऽयं वाजसनेय- संहितायाम् ३० -- ३१ अध्याययोर्दर्शितः । तत्र अधिकार्य्यादिकं ३० अध्याये वेददीपे उक्तम् । यथा, -- “ब्राह्मणराजन्ययोरतिष्ठाकामयोः पुरुषमेध- संज्ञ्को यज्ञो भवति । सर्व्वभूतान्यतिक्रम्य स्थानमतिष्ठा । चैत्रशुक्लदशम्यामारम्भः । अत्र त्रयोविंशतिर्दीक्षा भवन्ति द्वादशोपसदः पञ्च सुत्या इति चत्वारिंशद्दिनैः सिध्यति । अत्र यूपैकादशिनी भवति एकादशाग्निषोमीयाः पशवो भवन्ति तेषाञ्च प्रतियूपं मध्यमे वा यूपे यथेच्छं नियोजनम् । आज्येन सकृद्गृहीतेन देव सवितरिति प्रत्यृचं तिस्र आहुतीराहव- नीये जुहोति ॥”) स तु कलौ वर्ज्जनीयः । यथा, -- “समुद्रयात्रास्वीकारः कमण्डलुविधारणम् । द्बिजानामसवर्णासु कन्यासूपयमस्तथा ॥ देवरेण सुतोत्पत्तिर्म्मधुपर्के पशोर्व्वधः । मांसादनं तथा श्राद्धे वानप्रस्थाश्रमस्तथा ॥ दत्तायाश्चैव कन्यायाः पुनर्दानं वरस्य च । दीर्घकालं ब्रह्मचर्य्यं नरमेधाश्वमेधकौ ॥ महाप्रस्थानगमनं गोमेधश्च तथा मखः । इमान् धर्म्मान् कलियुगे वर्ज्ज्यानाहुर्म्मनीषिणः ॥” इत्युद्बाहतत्त्वे बृहन्नारदीयम् ॥
📄 मूल मुद्रित पृष्ठ (2-833-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें