नर्मदेश न० नर्मदया स्थापित इशो यत्र । काशीस्थे शिव- लिङ्गभेदे तदाविर्भवकथा काशीख० ९२ अ० यथा “निशम्येति विधेर्वाक्यं नर्मदा सरिदुत्तमा । धातुर्वरं परित्यज्य प्राप्ता वाराणसीं पुरीम् । सर्वेभ्योऽपि हि पुण्येभ्यः काश्यां लिङ्गे प्रतिष्ठिते । अपरा न तृनुद्दिष्टा कैश्चित् श्रेयस्करी क्रिया । अथ सा नर्मदा पुण्या विधिपूर्वं प्रतिष्ठितिम् । व्यधात् पिलिम्पिलातीर्थे त्रिपि- ष्टपसमीपतः । ततः शम्भुः प्रसन्नोऽभूत् तस्यै नद्यै शुभात्मने । वरं वृणीष्व सुभगे! यत्तुभ्यं रोचतेऽनघे! । सरिद्वरा निशम्येति रेवा प्राह महेश्वरम् । किं वरेणेह देवेश! भृशं तुच्छेन धूर्जटे! । निर्द्वन्द्वा त्वत्पदद्वन्द्वे भक्तिरस्तु ममेश्वर! । श्रुत्वेति नितरान्तुष्टो रेवागिरस- नुत्तमाम् । प्रोवाच च सरित्श्रेष्ठे! त्वयोक्तं यत्तथास्तु तत् । गृहाण पुण्यनिलये वितरामि वरान्तरम् । या- [] वत्योदृशदः सन्ति तव रोधसि नर्मदे । तावत्यो लिङ्ग- रूपिण्यो भविष्यन्ति वरान्मम । अन्यञ्च ते वरं दद्यां तमप्याकर्णयोत्तमम् । दुष्प्राप्यं यच्च तपसां राशिभिः परमार्थतः । सद्यः पापहरा गङ्गा सप्ताहेन कलि- न्दजा । त्र्यह्वा सरस्वती रेवे! त्वन्तु दर्शनमात्रतः । अपरं च वरं दद्यां नर्मदे! दर्शनाघहे । भवत्या स्थापितं लिङ्गं नर्मदेश्वरसंज्ञितम् । एतल्लिङ्गं महापुण्यं मुक्तिं दास्यति शाश्वतीम् । अस्य लिङ्गस्य ये भक्तास्तान् दृष्ट्वा सू- र्यनन्दनः । प्रणमिष्यति यत्नेन महाश्रेयोभिवृद्धये । सन्ति लिङ्गान्यनेकानि काश्यां देवि! पदेपदे । परं हि नर्मदेशस्य महिमा कोऽपि चाद्भुतः । इत्युक्त्वा देवदेवेश स्तस्मिन् लिङ्गे लयं ययौ । नर्मदापि प्रहृष्टाऽऽसीत् पा- वित्र्यं प्राप्य चाद्भुतम् । स्वदेशं च परिप्राप्ता दृष्टि- मात्राथहारिणी” ।
📄 मूल मुद्रित पृष्ठ (3982-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।