🕉️ 20 November 2026, Friday · 09:27:11 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

नलकूवर
nalakūvara
🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
नलकूवर पु० कुवेरपुत्रे “यक्षराज्ञा कुवेरेण वरा लब्धाश्च पुष्कलाः । धनाधिपत्यं सख्यञ्च रुद्रेणामिततेजसा । सुरत्वं लोकपालत्वं पुत्रञ्च नलकूवरम्” भा० श० ४८ अ० । स च नारदशापेन व्रजे स्थावरतां प्राप्तः कृष्णेन पुन- र्देवत्वमासादितः । तत्कथा भाग० १० स्कन्धे यथा “कृष्णस्तु गृहकृत्येषु व्यग्रायां मातरि प्रभुः । अद्रा- क्षीदर्जुनौ पूर्वं गुह्यकौ धनदात्मजौ” । “पुरानारदशापेन वृक्षतां प्रापितौ मदात् । नलकूवरमणिग्रीवाविति ख्यातौ श्रियान्वितौ” ९ अ० “रुद्रस्यानुचरौ भूत्वा सु- दृप्तौ धनदात्मजौ । कैलासोपवने रम्ये मन्दाकिन्यां मदोत्कटौ । वारुणीं मदिरां पीत्वा मदाघूर्णितलो- चनौ । स्त्रीजनैरनुगायद्भिश्चेरतुः पुष्पिते वने । अन्तः प्रविश्य गङ्गायामम्भोजवनराजिषु । चिक्रीडतुर्युवति- भिर्गजाविव करेणुभिः । यदृच्छया च देवर्षिर्भगवांस्तत्र कौरव! । अपश्यन्नारदो देवौ क्षीवाणौ समबुद्ध्यत । तं दृष्ट्वा व्रीडिता देव्यो विवस्त्रा शापशङ्किताः । वासांसि पर्य्यधुः शीघ्रं विवस्त्रौ नैव गुह्यकौ” “यदिमौ लोकपा- लस्य सुतौ भूत्वा तमःप्लुतौ । न विवाससमात्मानं विजानीतः सुदुर्मदौ । अत इतः स्थावरतां स्यातां नैवं यथा पुनः । स्मृतिः स्यात् मत्प्रसादेन तत्रापि मदनु- ग्रहात् । वासुदेवस्य सान्निध्यं लब्ध्वा दिव्यशरच्छते । वृत्ते स्वर्ल्लोकतां भूयो लब्धभक्ती भविष्यतः” १० अ०
📄 मूल मुद्रित पृष्ठ (3984,a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
नलकूवरः, पुं, कुवेरपुत्त्रः । इत्यमरः । १ । १ । ७३ ॥ (यथा, राजेन्द्रकर्णपूरे । ६९ । “विलोकनकथापि मे न नलकूवरे न स्मरे किमन्यदमृतद्युतेरपि न दर्शनं प्रार्थये । अयं नयनगोचरं व्रजति चेद्दृशामुत्सवः समग्ररमणीमनो मधुपमाधवः क्ष्माधवः ॥”) स भ्रात्रा मणिग्रीवेण सह वारुणीं पीत्वा कैलासोपवने गङ्गायां स्त्रीजनैः क्रीडितवान् । असंवृतवस्त्रौ तौ दृष्ट्वा नारदः शशाप । तच्छा- पेन तौ यमलार्ज्जुनौ भूत्वा श्रीवृन्दावने आसतुः । ततो दामोदरेण शापनिर्म्मुक्तौ तं नुत्वा स्वगृहं जग्मतुः । इति श्रीभागवतीयदशमस्कन्धः ॥
📄 मूल मुद्रित पृष्ठ (2-835-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें