नलिका, स्त्री, (नल इव आकारोऽस्त्यस्या इति । नल + ठन् ।) नाडी । नली इति ख्यातः । सा च उत्तरापथे प्रसिद्धा सुगन्धा प्रवाला- कृतिः प्रवालीति क्वचित् प्रसिद्धा । पँठारी इति क्वचित् प्रसिद्धा । तत्पर्य्यायः । विद्रुम- लतिका २ कपोतषाणा ३ नलिनी ४ निर्म्मथ्या ५ शुषिरा ६ आध्मानी ७ स्तुत्या ८ रक्तदला ९ नर्त्तकी १० नटी ११ । अस्या गुणाः । तिक्त- त्वम् । कटुत्वम् । तीक्ष्णत्वम् । मधुरत्वम् । कृमिवातोदरार्त्त्यर्शःशूलनाशित्वम् । मलशोध- नत्वञ्च । इति राजनिर्घण्टः ॥ तन्नामगुणाः । “नलिका विद्रुमलता कपोतचरणा नटी । धमन्यञ्जनकेशी च निर्म्मध्या शुषिरा नली ॥ नलिका शीतला लघ्वी चक्षुष्या कफपित्तहृत् । कृच्छ्राश्मवाततृष्णास्रकुष्ठकण्डुज्वरापहा ॥” इति भावप्रकाशः ॥ (अस्त्रविशेषः । यथा, आर्य्यासप्तशत्याम् । ४३७ । “मधुमथनवदनविनिहितवंशीसुषिरानुसारिणो रागाः । हन्त हरन्ति मनो मम नलिकाविशिखाः स्मर- स्येव ॥” इयं हि आकृतिक्रियादिना आधुनिकनला- स्त्रस्य ‘वन्दुक’ इति ख्यातस्य सादृश्यं गच्छति । यथा, वैशम्पायनोक्तधनुर्व्वेदे । “नलिका ऋजुदेहा स्यात्तन्वङ्गी मध्यरन्ध्रिका । मर्म्मच्छेदकरी नीला -- ॥” “ग्रहणं ध्मापनञ्चैव स्यूतञ्चेति गतित्रयम् । तामाश्रितं विदित्वा तु जेतासन्नान् रिपून् युधि ॥” अस्या विशेषविवरणन्तु नालिकशब्दे द्रष्टव्यम् ॥ कल्पितजलनिर्गमपथः । यथा, यन्त्रविधि- शतके १ अध्याये । “वेदाङ्गुलं मस्तकोर्द्धं कार्य्यं तोयस्य धारणे । समर्थां तत्र नलिकां कुर्य्यात्तोयविमोचनीम् ॥”)
📄 मूल मुद्रित पृष्ठ (2-836-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।