🕉️ 22 November 2026, Sunday · 05:56:25 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

नवग्रहाः
navagrahāḥ
ⓘ "नवग्रहा" ठीक इसी रूप में नहीं मिला — निकटतम शब्द दिखाया गया है।
🟤 शब्दकल्पद्रुम
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
नवग्रहाः, पुं, (नव ग्रहाः ।) सूर्य्यादयो नव । यथा, तिथितत्त्वे । “नवग्रहमखं कृत्वा ततः कर्म्म समारभेत् । अन्यथा फलदं पुंसां न काम्यं जायते क्वचित् ॥” (यथा च, -- “सूर्य्यश्चन्द्रो मङ्गलश्च बुधश्चापि बृहस्पतिः । शुक्रः शनैश्चरो राहुः केतुश्चेति नवग्रहाः ॥”) तेषां संस्थानम् । यथा, -- “भूमेर्योजनलक्षे तु सौरं मैत्रेय ! मण्डलम् । लक्षे दिवाकरस्यापि मण्डलं शशिनः स्थितम् ॥ पूर्णे शतसहस्रे तु योजनानां निशाकरात् । [] नक्षत्रमण्डलं कृत्स्नमुपरिष्टात् प्रकाशते ॥ द्विलक्षे चोत्तरे ब्रह्मन् ! बुधो नक्षत्रमण्डलात् । तावत्प्रमाणभागे तु बुधस्याप्युशनाः स्थितः ॥ अङ्गारकोऽपि शुक्रस्य तत्प्रमाणे व्यवस्थितः । लक्षद्बये तु भौमस्य स्थितो देवपुरोहितः ॥ सौरिबृहस्पतेश्चोर्द्ध्वं द्बिलक्षे समवस्थितः ॥” इति विष्णुपुराणे । २ । ७ अध्यायः ॥ तेषां रथादि यथा, -- “योजनानां सहस्राणि भास्करस्य रथो नव । ईषादण्डस्तथैवास्य द्बिगुणो मुनिसत्तम ! ॥ सार्द्धकोटिस्तथा सप्तनियुतान्यधिकानि वै । योजनानान्तु तस्याक्षश्चक्रं यत्र प्रतिष्ठितम् ॥ चत्वारिंशत्सहस्राणि द्वितीयोऽक्षो व्यवस्थितः । पञ्चान्यानि तु सार्द्धानि स्यन्दनस्य महामते ॥ अक्षप्रमाणमुभयोः प्रमाणं तद्युगार्द्धयोः । हस्वोऽक्षस्तद्युगार्द्धेन ध्रुवाधारो रथस्य वै । द्बितीयेऽक्षे तु तच्चक्रं संस्थितं मानसाचले ॥ हयाश्च सप्त छन्दांसि तेषां नामानि मे शृणु । गायत्त्री च बृहत्युष्णिग्जगती त्रिष्टुबेव च ॥ अनुष्टुप् पंक्तिरित्युक्ताश्छन्दांसि हरयो रवेः । स रथोऽधिष्ठितो देवैरादित्यैरृषिभिस्तथा । गन्धर्व्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥ स्तुवन्ति मुनयः सूर्य्यं गन्धर्व्वैर्गीयते पुरः । नृत्यन्त्यप्सरसो यान्ति सूर्य्यस्यानु निशाचराः ॥ वहन्ति पन्नगा यक्षैः क्रियते भीषु संग्रहः । वालखिल्यास्तथैवैनं परिवार्य्य समासते ॥ सोऽयं सप्तगणः सूर्य्यमण्डले मुनिसत्तम ! । हिमोष्णवारिवृष्टीनां हेतुत्वं समुपागतः ॥ रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः । वामदक्षिणतो युक्ता दश तेन चरत्यसौ ॥ * ॥ वाय्वग्निद्रव्यसम्भूतो रथश्चन्द्रसुतस्य च । पिशङ्गैस्तुरगैर्युक्तः सोऽष्टाभिर्वायुवेगिभिः ॥ * ॥ सवरूथः सानुकर्षो युक्तो भूसम्भवैर्हयैः । सोपासङ्गपताकस्तु शुक्रस्यापि रथो महान् ॥ * ॥ अष्टास्रः काञ्चनः श्रीमान् भौमस्यापि रथो महान् । पद्मरागारुणैरश्वैः संयुक्तो वह्रिसम्भवैः ॥ * ॥ अष्टाभिः पाण्डरैर्युक्ते वाजिभिः काञ्चने रथे । तस्मिंस्तिष्ठति वर्षं वै राशौ राशौ बृहस्पतिः ॥ आकाशसम्भवैरश्वैः शवलैः स्यन्दनं युतम् । समारुह्य शनैर्याति मन्दगामी शनैश्चरः ॥ * ॥ स्वर्भानोस्तुरगा ह्यष्टौ भृङ्गाभा धूसरं रथम् । सकृद्युक्तास्तु मैत्रेय ! वहन्त्यविरतं सदा ॥ * ॥ तथा केतुरथस्याश्वा अष्टौ ते वातरंहसः । पलालधूमवर्णाभा लाक्षारसनिभारुणाः ॥ * ॥ एते मया ग्रहाणां वै तवाख्याता रथा नव । सर्व्वे ध्रुवे महाभाग ! प्रबद्धा वायुरश्मिभिः ॥” इति विष्णुपुराणे २ अंशे ८ । १० । १२ अध्यायाः ॥ ग्रहाणामशुभप्रतीकारः । राजमार्त्तण्डे । “दोषो न स्याद्ग्रहाणामशिशिरकिरणे ताम्र- मिन्दौ च शङ्खं [] पृथ्वीपुत्त्रे प्रवालं शशधरतनये शातकुम्भं भुजेन । देवाचार्य्ये च मुक्तां मणिमसुरगुरौ सीसकं सूर्य्यसूनौ राहौ लौहं त्वनिष्टे कमलजतनये राजपट्टं विभर्त्तुः ॥” शातकम्भं सुवर्णम् । राजपट्टं कर्पूराणीति ख्यातम् । अपि च । बुद्धिप्रकाशे । “त्रिशूलीं क्षीरिकामूलं गोजिह्वां वृद्धदारकम् । ब्रह्मयष्टिं सिंहपुच्छीं वाट्यालं चन्दनं सितम् । अश्वगन्धां क्रमात् सूर्य्याद्दद्याद्दोषोपशान्तये ॥” इति ज्योतिषतत्त्वम् ॥ स्वजन्मराश्यवधिनवग्रहशुद्धि
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬