🕉️ 29 November 2026, Sunday · 11:15:41 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

नवनीतधेनु
navanītadhenu
🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
नव—नीत—धेनु f. a quantity of butter presented to Brāhmans (cf. under धेनु), W.
📄 मूल मुद्रित पृष्ठ (530,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
नवनीतधेनु स्त्री दानार्थकल्पितायां नवनीतमय्यां धेन्वां तद्दानविधिः वराहपु० उक्तो यथा “नवनीतमयीं धेनुं शृणु राजन् प्रयत्नतः । यां श्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः । गोमयेनानुलिप्तायां भूमौ गोचर्ममात्रतः । कृष्णचर्म मृगस्यैव तस्योपरि च धारयेत् । कुम्भन्तु नवनीतस्य प्रस्थमात्रस्य धारयेत् । वत्सं चतुर्थमागस्य तस्या उत्तरतो न्यसेत् । कृत्वा विधा नेन च राजसिंह! सुवर्णशृङ्गी सुसुखी च कार्य्या । नेत्रे च तस्या मणिमौक्तिकैस्तु कृत्वा तथान्थच्च गुडेन जिह्वाम् । ओष्ठौ च पुष्पैश्च फलैश्च दन्ताः प्रकल्प्य सास्नाञ्च सितैश्च सूत्रैः । नवनीतस्तनीं राजन्निक्षुपादां प्रकल्पयेत् । ताम्रपृष्ठीं कांस्यदोहां दर्भरोमकृतच्छवीम् । स्वर्णशृङ्गीं रौप्यखुरां पञ्चरत्नसमन्विताम् । चतुर्भिस्तिल- पात्रैस्तु संयुतां सर्वतोदिशम् । आच्छाद्य वस्त्रयुग्मेन गन्धपुष्पैरलंकृताम् । दिक्षु दीपांश्च प्रज्वाल्य व्राह्मणाय निवेदयेत् । वेदवेदाङ्गविदुषे आहिताग्निजितात्मने । मन्त्रास्त एव जप्तव्याः सर्वधेनुषु ये स्मृताः । पुरा देवा- सुरैः सर्वैः सागरस्य तु मन्थने । उत्पन्नं दिव्यमगृतं नवनीतमिदं शुभम् । आप्यायनञ्च मूतानां नवनीत! [] नमोस्तु ते । एवमुच्चार्य्य तां दद्याद्ब्राह्मणाय स्मुटुम्बिने । धेनुञ्च दत्त्वा सुमुदा सोपधानां नयेद्गृहम् विप्रवर्य्यस्य भूयः । हविष्यमेवं सरसञ्चोषभुक्त्वा तिष्ठेत्त्र्यहं धेनुद- स्तत्र विप्रः । यः प्रपश्यति तां धेनुं दीयमानां नरोत्तम! । सर्वपापविनिर्मुक्तः शिवसायुज्यतां व्रजेत् । पितृभिः पूर्वजैः सार्द्धं भविष्यद्भिश्च मानवः । विष्णु- लोकं व्रजत्याशु यावदाहूतसंप्लवम् । य इदं शृणु याद्भक्त्या श्रावयेद्वापि मानवः । सर्वपापविशुद्धात्मा विष्णुलोके महीयते” ।
📄 मूल मुद्रित पृष्ठ (3990-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
नवनीतधेनुः, स्त्री, (नवनीतेन कृता धेनुः । मध्यपदलोपिकर्म्मधारयः ।) दानार्थकृतनव- नीतमयधेनुविशेषः । यथा, -- “नबनीतमयीं धेनुं शृणु राजन् ! प्रयत्नतः । यां श्रुत्वा सर्व्वपापेभ्यो मुच्यते नात्र संशयः ॥ गोमयेनानुलिप्तायां भूमौ गोचर्म्ममात्रतः । [] कृष्णचर्म्ममृगस्यैव तस्योपरि च धारयेत् ॥ कुम्भन्तु नवनीतस्य प्रस्थमात्रस्य धारयेत् । वत्सं चतुर्थभागस्य तस्या उत्तरतो न्यसेत् ॥ कृत्वा विधानेन च राजसिंह- सुवर्णशृङ्गी सुमुखी च कार्य्या । नेत्रे च तस्या मणिमौक्तिकैस्तु कृत्वा तथान्यच्च गुडेन जिह्वाम् ॥ ओष्ठौ च पुष्पैश्च फलैश्च दन्ताः प्रकल्प्य सास्नाञ्च सितैश्च सूत्रैः ॥ नवनीतस्तनीं राजन्निक्षुपादां प्रकल्पयेत् । ताम्रपृष्ठीं कांस्यदोहां दर्भरोमकृतच्छवीम् ॥ स्वर्णशृङ्गीं रौप्यखुराम् पञ्चरत्नसमन्विताम् । चतुर्भिस्तिलपात्रैस्तु संयुतां सर्व्वतो दिशः ॥ आच्छाद्य वस्त्रयुग्मेन गन्धपुष्पैरलङ्कृतम् । दिक्षु दीपांश्च प्रज्वाल्य ब्राह्मणाय निवेदयेत् ॥ वेदवेदाङ्गविदुषे आहिताग्निर्ज्जितात्मवान् । मन्त्रास्त एव जप्तव्याः सर्व्वधेनुषु ये स्मृताः ॥ पुरा देवासुरैः सर्व्वैः सागरस्य तु मन्थने । उत्पन्नं दिव्यममृतं नवनीतमिदं शुभम् ॥ आप्यायनञ्च भूतानां नवनीत ! नमोऽस्तु ते । एवमुच्चार्य्य तां दद्यात् ब्राह्मणाय कुटुम्बिने ॥ घेनुञ्च दत्त्वा सुमुदां सोपधानां नयेद्गृहं विप्रवर्य्यस्य भूयः । हविष्यमेव सरसञ्चोपभुक्त्वा तिष्ठेद्दिनं धेनुदस्त्रीणि विप्रः ॥ यः प्रपश्यति तां धेनुं दीयमानां नरोत्तम । सर्व्वपापविनिर्मुक्तः शिवसायुज्यतां व्रजेत् ॥ पितृभिः पूर्व्वजैः सार्द्धं भविष्यद्भिश्च मानवः । विष्णुलोकं व्रजत्याशु यावदाहूतसंप्लवम् ॥ य इदं शृणुयाद्भक्त्या श्रावयेद्बापि मानवः । सर्व्वपापविशुद्धात्मा विष्णुलोके महीयते ॥” इति वराहपुराणम् ॥
📄 मूल मुद्रित पृष्ठ (2-839-a)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬