नवलक्षण न० नवमितं लक्षणम् । विश्वसर्गस्थितिप्रलया [] णामन्यतमस्य तत्तदुपादानगोचरापरोक्षज्ञानचिकीर्षा- कृतिमत्त्वानामन्यतमरूपेषु नवसु पारमेश्वरेषु लक्षणेषु तदेतत् वेदा० प० समर्थितं यथा “प्रकृते च जगज्जन्मादिकारणत्वम् (तटस्य लक्षणम्) अत्र जगत्पदेन कार्यजातं विवक्षितम् । कारणत्वञ्च कर्तृत्वम् अतोऽविद्यादौ नातिव्याप्तिः । कर्त्तृत्वञ्च तत्तदु- पादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वम् । ईश्वरस्य तावदुपादानगोचरापरोक्षज्ञानसद्भावे च “यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः । तस्मादेतद् ब्रह्म नाम रूप- मन्नञ्च जायते” इत्यादि श्रुतिर्मानम् । तादृशचिकीर्षा सद्भावे च “सोऽकामयत बहु स्यां प्रजायेति” श्रुतिर्मानम् । तादृशकृतौ च “तन्मनोऽकुरुतेत्यादि” वाक्यम् । ज्ञाने- च्छाकृतीनामन्यतमगर्भं लक्षणत्रितयं विवक्षितम् अन्यथा व्यर्थविशेषणापत्तेः । अतएव जन्मस्थितिध्वंसानामन्य- तमस्यैव लक्षणे प्रवेशः । एवञ्च लक्षणानि नव सम्पद्यन्ते ब्रह्मणो जगज्जन्मादिकारणत्वे च “यतोवा इमानि भू- तानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसं- विशन्तीत्यादि” श्रुतिर्म्मानम् । “जन्माद्यस्य यतोऽन्वयादि- तरतश्चार्थेष्वभिज्ञः स्वराट् तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत् सूरयः” भाग० । १ । १ । १ श्लोकस्य प्रतिपा- द्यार्थसंग्राहकः श्रीधरस्वामिकृतः श्लोको यथा “विश्व- सर्गविसर्गादिनवलक्षणलक्षितम् । श्रीकृष्णाख्यं परं धाम जगद्धाम नमामि तत्” ।
📄 मूल मुद्रित पृष्ठ (3995-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।