नवांश पु० नवमोऽंशः । त्रिंशांशकरूपराशेर्नवमे भागे स च एकैकराशे ३ । ३० विंशतिकलाधिकांशत्रयरूपः । राशि- भेदे राशिभेदस्यैकैकांशादिकं ज्यो० उक्तं यथा “मेषाद्यामकराद्याश्च तुलाद्याः कर्कटादयः । एषान्न- वांशा राशीनां खांशाः वर्गोत्तमा स्मृताः” यष्या मेघे प्रथमनवांशो मेषस्य, द्वितीयांशो वृषस्य, तृतीयांशो मि- थुनस्य, चतुर्थाशः कर्कटस्य, पञ्चमांशः सिंहस्य, षष्ठांशः कन्यायाः सप्तमांशस्तुलायाः, अष्टमांशो वृश्चिकस्य, नव- मांशो धनुषः । एवं वृषे प्रथमांशो मकरस्य १ कुम्भस्य २ मीनस्य ३ मेषस्य ४ वृषस्य ५ सिथुनस्य ६ कर्कटस्य ७ सिं- हस्य ८ कन्यायाः ९ । तथा मिथुने तुलायाः १ वृश्चिकस्य २ धनुषः ३ मकरस्य ४ कुम्भस्य ५ मीनस्य ६ मेषस्य ७ वृषस्य ८ मिथुनस्य ९ । एवं कर्के कर्कस्य १ सिंहस्य २ सन्यायाः ३ तुलायाः ४ वृश्चिकस्य ५ धनुषः ६ मकरस्य ७ कुम्भस्य ८ मीनस्य ९ । एवं सिंहे मेषाद्याः ९ । कन्यायां मकराद्याः ९ । तुलायां तुलाद्याः ९ । वृश्चिके कर्कटाद्याः ९ । एवमेव धनुषि मेषाद्याः ९ । मकरे मकराद्याः ९ । कुम्भे तुलाद्याः ९ । मीने कर्काद्याः ९ । क्रमान्नवांशा ज्ञेयाः उक्तञ्च “मेघे नवांशा मेषाद्याः वृषे च मकरादिकाः । मिथुने च तुलाद्याःस्युः कर्कटे कर्कटादिकाः” इति ।
📄 मूल मुद्रित पृष्ठ (3996,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।