नष्टचन्द्र पु० नष्टः दुष्टश्चन्द्रः । सौरभाद्रमासे उभयपक्षीय चतुर्थ्यामुदिते चन्द्रे तस्य तद्दिवसे दुष्टत्वकारणं ब्रह्म- वै० पु० ८० अ० उक्तं यथा “नष्टश्चन्द्रो न दृश्यश्च भाद्रे मासि सितासिते । चतु- र्थ्यामुदितोऽशुद्धः प्रतिषिद्धो मनीषिभिः । चन्द्रस्तारा- पहरणं कलङ्कमतिदुष्करम् । तस्मै ददाति हे नन्द! कामतो यदि पश्यति । अकामतो नरो दृष्ट्वा मन्त्र- पूतं जलं पिबेत् । तदशुद्धो भवेत् सद्यो निष्कलङ्की महीतले । सिंहः प्रसेनमबधीत् सिंहो जाम्बवता हतः । सुकुमारक! मा रोदीस्तव ह्येष स्यमन्तकः । इति मन्त्रेण पूतञ्च जलं साधु पिबेद्ध्रुवम्” इत्युपक्रमे “दृष्ट्वा तस्याश्च (तारायाः) सर्व्वाङ्मनङ्गवाणपीडितः । माद्रे चतुर्थ्याञ्चन्द्रश्च जहाराचेतनां व्रजन् । ज्ञानं क्षणेन संप्राप्य रथस्थो रसिको बली । रथमारोहयामास करे धृत्वा च तारकाम् । कामोन्मत्तः कामिनीन्तां समाश्लिष्य चुचुम्ब सः “यस्मात्तस्मिन् दिने वत्स! पापदृश्यो युगे युगे । मा भुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । देहत्यागेन हे वत्स! कर्मभोगो न नश्यति । प्रायश्चित्तान्न सन्देहो ह्यस्तमेव भविष्यति । तारापहरणं वत्स! कलङ्कश्चन्द्र- मण्डले । मृगकृतं विलग्नञ्च भविष्यति युगे युगे” ।
📄 मूल मुद्रित पृष्ठ (4000,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।