🕉️ 21 November 2026, Saturday · 03:55:47 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

नागमाता
nāgamātā
🟠 शब्दसागर🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
नागमाता संज्ञा स्त्री॰ [सं॰]
१. नागों की माता । कद्रू ।
२. सुरसा । विशेष— रामायण में लिखा है कि जिस समय हनुमान समुद्र लाँघ रहे थे, देवताओं ने उनके बल की परीक्षा के लिये नागों की माता सुरसा को भेजा था ।
२. मनःशिला । मैनसिला ।
३. मनसा देवी । (ब्रह्मवैवर्त पु॰) ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
नागमाता, [ऋ] स्त्री, (नागानां हस्थिनां मातेव भूषकत्वात् ।) मनःशिला । इति हेम- चन्द्रः । ४ । १२६ ॥ (नागानां सर्पाणां माता ।) मनसादेवी । इति शब्दरत्नावली ॥ (यथा, ब्रह्मवैवर्त्ते । २ । १ । ६७ । “नागेश्वरस्यानन्तस्य भगिनी नागपूजिता । नागेश्वरी नागमाता सुन्दरी नागवाहिनी ॥” सुरसा । इयं हि सागरोल्लङ्घनसमये हनुमतः परीक्षार्थं देवैरादिष्टा तस्य विघ्नमाचरितुं गता तेन वञ्चिता च । यथा, रामायणे । ६ । १ । १३९ । “ततो देवाः सगन्धर्व्वाः सिद्बाश्च परमर्षयः । अब्रुवन् सूर्य्यसङ्काशां सुरसां नागमातरम् ॥” यथा, च अध्यात्मरामायणे । ६ । १ । ८ -- २४ । [] “दृष्ट्वानिलसुतं देवा गच्छन्तं वायुवेगतः । परीक्षणार्थं सत्त्वस्य वानरस्येदमब्रुवन् ॥ गच्छत्येष महासत्त्वो वानरो वायुविक्रमः । लङ्कां प्रवेष्टुं शक्तो वा न वा जानीमहे बलम् ॥ एवं विचार्य्य नागानां मातरं सुरसाभिधाम् । अब्रवीद्देवतावृन्दः कौतूहलसमन्वितः ॥ गच्छ त्वं वानरेन्द्रस्य किञ्चिद्विघ्नं समाचर । ज्ञात्वा तस्य बलं बुद्धिं पुनरेहि त्वरान्विता ॥ इत्युक्ता सा ययौ शीघ्रं हनुमद्विघ्नकारणात् । आवृत्य मार्गं पुरतः स्थित्वा वानरमब्रवीत् ॥ एहि मे वदनं शीघ्रं प्रविशस्व महामते ! । देवैस्त्वं कल्पितो भक्ष्यः क्षुधासम्पीडितात्मनः ॥ तामाह हनुमान् मातरहं रामस्य शासनात् । गच्छामि जानकीं द्रष्टुं पुनरागम्य सत्वरः ॥ रामाय कुशलं तस्याः कथयित्वा त्वदाननम् । निवेक्ष्ये देहि मे मार्गं सुरसायै नमोऽस्तु ते ॥ इत्युक्ता पुनरेवाह सुरसा क्षुधितास्म्यहम् । प्रविश्य गच्छ मे वक्त्रं नोचेत् त्वां भक्षयाम्यहम् ॥ इत्युक्तो हनुमानाह मुखं शीघ्रं विदारय । प्रविश्य वदनं तेऽद्य गच्छामि त्वरयान्वितः ॥ इत्युक्ता योजनायामदेहो भूत्वा पुरः स्थितः । दृष्ट्वा हनुमतो रूपं सुरसा पञ्चयोजनम् । मुखं चकार हनुमान् द्बिगुणं रूपमादधत् ॥ ततश्चकार सुरसा योजनानाञ्च विंशतिम् । वक्त्रं चकार हनुमांस्त्रिंशद्योजनसम्मितम् ॥ ततश्चकार सुरसा पञ्चाशद्योजनायतम् । वक्त्वं तदा हनूमांस्तु बभूवाङ्गुष्ठसन्निभः ॥ प्रविश्य वदनं तस्याः पुनरेत्य पुरः स्थितः । प्रविष्टो निर्गतोऽहं ते वदनं देवि ! ते नमः ॥ एवं वदन्तं दृष्ट्वा सा हनुमन्तमथाब्रवीत् । गच्छ साधय रामस्य कार्य्यं बुद्धिमतां वर ! ॥ देवैः सम्प्रेषिताहं ते बलं जिज्ञासुभिः कपे ! । दृष्ट्वा सीतां पुनर्गत्वा रामं द्रक्ष्यसि गच्छ भो ॥” कद्रुः । इति महाभारतम् ॥)
📄 मूल मुद्रित पृष्ठ (2-850-a)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें