नागयष्टि स्त्री नागाधिष्ठानं यष्टिः । तडागादौ आरोप्ये वारुणादिकाष्ठमये नागविशेषस्याधिष्ठानरूपे स्तम्भभेदे (रैकाठ) तद्विधानं तदघिष्ठातृनागनामज्ञापनं च जलाशयोत्सर्गे उक्तं यथा कापिले “नागानामष्ट नामानि लिखितानि पृथक् पृथक् । ततः कुम्भे च निःक्षिप्य गायत्र्या च विलोड्य वै । उद्धरेत् पत्रिका- मेकां तत्र वैनागमीक्षयेत् । यस्य नामोद्धरेद्वत्स! स वै जलाधिपः स्मृतः । तं वै संपूज्य गन्धाद्यैर्दद्यात् क्षीरञ्च पायसम्” । पत्राण्याम्रस्य । योगीश्वरधृतवच- नात् । “यथाऽष्टौ नामान्याम्रस्य पत्रे कृत्वा तु [] यत्नतः” तानि च गारुडे । “अनन्तो वासुकिः पद्मो महापद्मोऽथ तक्षकः । कुलीरः कर्कटः शङ्खो ह्यष्टौ नागाः प्रकीर्त्तिताः” ततश्च अनन्तवासुकिकर्कोटकपद्म- महापद्मतक्षकशङ्खकुलीराणां नामान्याम्रपत्रे लिखित्वा कुम्भमध्ये निक्षिप्य गायत्र्या गोमूत्रेण वा “छन्दसा- मथ्नामीति” रघुनाथधृतमन्त्रेणालोड्य यस्य नामोत्तिष्ठति तं यष्ट्यां समाबाह्यानेन नागेन अस्य जलाशयस्य रक्षा कर्त्तव्येति ब्राह्मणान् श्रावयेत् । हयशीर्षे “वैल्वकं वारुणञ्चैव पुन्नागं नागकेसरम् । बकुलं चम्पकञ्चैव विल्वञ्चैवाथ खादिरम् । एतेषामेव दारुणां नागयष्टिः प्रकीर्त्तिता । सवक्रकोटरं त्यक्त्वा तस्मात् कुर्य्यात् यथे- प्सितम्” । तथा च वृहस्पतिः “शूलचक्राङ्कितं कृत्वा स्थापयित्वा जलाशये । द्वादशाङ्गुलमानन्तु वाप्यां चक्रं प्रकल्पयेत् । षोडशं पुष्करिण्यान्तु विंशतिस्तु सरो- वरे । सागरे हस्तमात्रन्तु लौहं ताम्रञ्च पैत्तलम् । चक्रञ्च विविधं प्रोक्तं कुर्य्यात्तेषां यथेप्सितम्” । स्वार्थे क तत्रार्थे त्रिका० ।
📄 मूल मुद्रित पृष्ठ (4013-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।