🕉️ 23 November 2026, Monday · 10:07:19 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

नागरखण्ड
nāgarakhaṇḍa
🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
नागर—खण्ड n. N. of ch. of SkandaP.
📄 मूल मुद्रित पृष्ठ (534,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
नागरखण्ड न० स्कन्धपुराणान्तर्गते स्वानामख्याते खण्डभेदे तत्प्रतिपाद्यविषयाश्च वृहन्नारदीये उक्ता यथा “अतः परः नागराख्यः खण्डः षष्ठोऽभिधीयते । लिङ्गोत्- पत्तिसमाख्यानं हरिश्चन्द्रकथा शुभा । विश्वामित्रस्य माहात्म्यं त्रिशङ्कुस्वर्गतिस्तथा । हाटकेश्वरमाहात्म्यं वृत्रासुरबधस्तथा । नागविलं शङ्खतीर्थं अचलेश्वरवर्ण- नम् । चमत्कारपुराख्यानं चमत्कारकरं परम् । गयशीर्षं बालशाख्यं बालमण्डं मृगाह्वयम् । विष्णुपादञ्च गोकर्णं युगरूपं समाश्रयः । सिद्धेश्वरं नागसरः सप्तार्षेयं ह्यगस्तकम् । भ्रूणगर्त्तं नलेशञ्च भैष्मं दुर्वैरमर्ककम् । शार्म्मिष्ठं सोमनाथञ्च दौर्गमानर्जके- श्वरम् । जमदग्निबधाख्यानं नैःक्षत्रियकथानकम् । रामह्रदं नागपुरं जडलिङ्गञ्च यज्ञभूः । मुण्डीरादि- त्रिकाकञ्च सतीपरिणयस्तथा । बालखिल्यञ्च यागेशं बालखिल्यञ्च गारुडम् । लक्ष्मीशापः सप्तविंशः सोम- प्रासादमेव च । अम्बावृद्धं पादुकाख्यम् आग्नेयं ब्रह्म- कुण्डकम् । गोमुखं लोहयष्ट्याख्यं अजापालेश्वरी तथा । शानैश्चरं राजवापी रामेशो लक्ष्यणेश्वरः । कुशेशाख्यं लवेशाख्यं लिङ्गं सर्वोत्तमोत्तमम् । अष्टषष्टिसमाख्यानं दमयन्त्या स्त्रीजातकम् । ततोऽम्बा रेवती चात्र भट्टि- कातीर्थसम्भवम् । क्षेमङ्करी च केदारं शुक्लतीर्थं मुखा- रकम् । सत्यसन्धेश्वराख्यानं तथा कर्णोत्पला कथा । जटेश्वरं याज्ञवल्क्यं गौर्य्यं गाणेशमेव च । ततो वास्तुपदाख्यानम् अजामहकथानकम् । सौभाग्यान्धुक शूलेशं धर्मराजकथानकम् । मिष्टाम्रदेश्वराख्यानं गाण- पत्यत्रयं ततः । जावालिचरितञ्चैव मकरेशकथा ततः । कालेश्वर्य्यन्धकाख्यानं कुण्डमाप्सरसन्तथा । पुष्यादित्यं रोहिताश्वं नागरोत्पत्तिकीर्त्तनम् । भार्गवं चरितं चैव विश्वामित्रं ततः परम् । सारस्वतं पैप्पलादं कंसा- रीशञ्च पैतृकम् । ब्रह्मणो थज्ञचरितं सावित्र्याख्यान- संयुतम् । रैवतं भर्तृयज्ञाख्यं तुख्यतीर्थनिरीक्षणम् । कौरवं हाटकेशाख्यं प्रभासक्षेत्रकत्रयम् । पौष्करं नैमिषं धार्ममरण्यत्रितयं स्मृतम् । वाराणसी द्वारकाख्याऽवन्त्याख्येति पुरीत्रयम् । वृन्दावनं खाण्ड- वाख्यं सद्वैताख्यं वनत्रयम् । कल्पः शालस्तथा नन्दो ग्रामत्रयमनुत्तमम् । असिशुक्लपितृसंज्ञतीर्थत्रयसुदा- [] हृतम् । श्र्यर्वुदौ रैवतश्चैव पर्वतत्रयमुत्तमम् । नदीनां त्रितयं गङ्गा नर्मदा च सरस्वती । सार्द्धकोटि त्रयफलमेकैकञ्चासृ कीर्त्तितम् । कूपिका शङ्खतीर्थञ्चा- मरकं बालमण्डनम् । हाटकेशं क्षेत्रफलप्रदं प्रोक्तं चतुष्टयम् । शाम्बादित्यं श्राद्धकल्पं यौधिष्ठिरमथान्ध- कम् । जलाशयिचतुर्मास्यं अशून्यशयनं व्रतम् । मङ्कणेशं शिवरात्रिस्तुलापुरुषदानकम् । पृथ्वीदानं बामकेशं कपालमोचनेश्वरम् । पापपिण्डं साप्तलैङ्गं युगमानादिकीर्त्तनम् । दानमाहात्म्यकथनं द्वादशादित्य कीर्त्तनम् । इत्येष नागरः खण्डः प्रभासाख्योऽधुनोच्यते”
📄 मूल मुद्रित पृष्ठ (4014-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬