🕉️ 24 November 2026, Tuesday · 12:09:50 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

नागलक्षण
nāgalakṣaṇa
🟢 वाचस्पत्यम्
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
नागलक्षण ६ त० । नागानां भेदादिज्ञापके चिह्नभेदे अहि- शब्दे ५८१ पृ० तल्लक्षणादिकं सुश्रुतोक्तं दर्शितम् । अग्निपुराणोक्तं शेषवासुकितक्षकलक्षणादिकमत्र प्रद- र्श्यते तच्च तत्र २९३ अ० उक्तं यथा “अग्निरुवाच नागादयोऽथ भावादि दंशस्थानानि कर्म च । सूतकं दष्टचेष्टेति सप्तलक्षणमुच्यते । शेषवासुकि- तक्षाख्याः कर्कर्टोऽब्जो महाम्बुजः । शङ्खपालश्च कलिक इत्यष्टौ नागवर्यकाः । दशाष्टपञ्चत्रिगुणशतमूर्द्ध्वान्वितौ क्रसात् । विप्रौ नृपौ विशौ शूद्रौ द्वौ द्वौ नागेषु की- र्त्तितौ । तदन्वयाः पञ्चशतं तेभ्यो जाता असंख्यकाः । मणिमण्डलिराजीलवातपित्तकफात्मकाः । व्यन्तरा दो- षमिश्रास्ते सर्पा दर्वीकराः स्मृताः । रथाङ्गलाङ्गलच्छ- त्रस्वस्तिकाङ्कुशधारिणः । गोनसा मन्दगा दीर्घा म- ण्डलैर्विविधैश्चिताः । राजिलाश्चित्रिताः स्निग्धास्तिर्य- गूर्द्धञ्च राजिभिः । व्यन्तरा मिश्रचिह्नाश्च भूवर्षाग्नेय वायवः । चतुर्विघास्ते षड्विंशभेदाः षोडश गोनसाः । त्रयोदश च राजीला व्यन्तरा एकविंशतिः । येऽनुक्त- काले जायन्ते सर्पास्ते व्यन्तराः स्मृताः । आपाढादि- त्रिमासैः स्याद्गर्भो मासचतुष्टये । अण्डकानां शते द्वे च चत्व्यारिंशत् प्रसूयते । सर्पा ग्रसन्ति सूतौ तान् विना [] स्त्रीपुन्नपुंसकान् । उन्मीलतेऽक्षि सप्ताहात् कुक्षे- र्मासाद्गवेद्बहिः । द्वादशाहात् सुरोषः स्यात् दन्ताः स्युः सूर्यदर्शनात् । द्वात्रिंशत्, दिनविंशत्या चतस्रस्तेषु दं- ष्ट्रिकाः । कराली मकरी कालरात्री च यमदूतिका । एतास्ताः सविषा दंष्ट्रा वामदक्षिणपार्श्वगाः । षण्मासा- न्मुच्यते कृत्त्या जीवेत् षष्टिसमाद्वयम् १२० । नागाः सूर्य्या- दिवारेशाः सप्त उक्ता टिवा निशि । खेषां षट् प्रति- वारेषु कुलिकः सर्वसन्धिषु । शङ्खेन वा महाब्जेन सह तस्योदयोऽथ वा । द्वयोर्वा नाडिकामन्त्रमन्त्रकं कुलिकोदयः । दुष्टः स कालः सर्वत्र सर्पदंशे विशेषतः । कृत्तिका भरणी स्वाती मूलं पूर्वत्रयाश्विनी । विशाखार्द्रा मघाश्लेषा चित्रा श्रवणरोहिणी । हस्ता मन्दकुजौ वारौ पञ्चमी चाष्टमी तिथिः । षष्ठी रिक्ता शिवा निन्द्या पञ्चदशी चतुर्दशी । सन्ध्याचतुष्टयं दुष्टं दग्ध- योगाश्च राशयः । एकद्विबहवो दंशा दष्टविद्धञ्च खण्डि- तम् । अदंशमवगुप्तं स्याद्दंशमेवं चतुर्विधम् । त्रयो द्व्येकक्षता दंशा वेदना रुधिरोल्वणा । नक्तन्त्वेका- ङ्घ्रिकूर्माभा दंशाश्च यमचोदिताः । दाही पिपीलिका- स्पर्शीकण्टशोथरुजान्वितः । सतोदो ग्रन्थिती दंशः मविषो न्यस्तनिर्विषः । देवालये शून्यगृहे वल्मीकोद्या- नकोटरे । रथ्यासन्धौ श्मशाने च नद्याञ्च सिन्धुसङ्गमे । द्वीपे चतुष्पथे सौधे गृहेऽब्जे पर्वताग्रतः । बिलद्वारे जीर्णकूपे जीर्णवेश्मनि कुड्यके । शिग्रुश्लेष्मातकाक्षेषु जम्बूडुम्बरकेषु च । वटे च जीर्णप्राकारे स्वास्यहृत्- कक्षजत्रुणि । तालौ शङ्खे गले मूर्घ्नि चिवुके नाभि- पादयोः । दंशोऽशुभः शुभो दूतः पुष्पहस्तः सुवाक् सुधीः । लिङ्गवर्णसमानश्च शुक्लवस्त्रोऽमलः शुचिः । अपद्वारगतः शस्त्री प्रमादी भूगतेक्षणः । विवर्णवासाः पाशादिहस्तो गद्गदवर्णभाक् । शुष्ककाष्ठाश्रितः खिन्न- स्तिलाक्तककरांशुकः । आर्द्रवासाः कृष्णरक्तपुष्पयुक्त- शिरोरुहः । कुचमर्दी नखच्छेदी गुदस्पृक् पादलेखकः । केशलुञ्ची तृणच्छेदो दुष्टा दूतास्तथैकशः । इडान्या वा वहेद्द्वेधा यदि दूतस्य चात्मनः । आभ्यां द्वाभ्यां पुष्टयाम्यान् विद्यात्स्त्रीपुन्नपुंसकान् । दूतः स्पृशति यद्गात्रं तस्मिन् दशमुदाहरेत् । दूताङ्घ्रिचलनं दुष्ट- मुत्थितिर्निश्चला शुभा । जीवपार्श्वे शुभो दूतो दुष्टोऽ- न्यत्र समागतः । जीवो गतागतैर्दुष्टः शुभो दूतनिवेदने ।
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬