नागवल्ली, स्त्री, (नाग इव दीर्धा वल्ली लता ।) ताम्बूली । इत्यमरः । २ । ४ । १२० ॥ अस्याः पर्य्यायास्ताम्बूलवल्लीशब्दे गुणाश्च ताम्बूलशब्दे द्रष्टव्याः । सा च श्रीवाटाम्लवाटादिनानाग्रामस्थ- स्थानभेदादेव भिन्ना । “एकाप्येषा देशमृत्स्नावशषा- न्नानाकारं याति काये गुणे च ॥ श्रीवाटी मधुरा तीक्ष्णा वातपित्तकफापहा । रसाढ्या च रसा रुच्या विपाके शिशिरा स्मृता ॥ स्यादम्लवाटी कटुकाम्लतिक्ता तीक्ष्णा तथोष्णा मुखपाककर्त्री । विदाहपित्तासविकोपनी च विष्टम्भदा वातनिवर्हणी च ॥ सप्तमी मधुरा तीक्ष्णा कटुरुष्णा च पाचनी । गुल्मोदराघ्मानहरा रुचिकृद्दीपनी परा ॥” अन्यच्च । “गुहागरे सप्तशिरा प्रसिद्धा तत्पर्णचूर्णातिरसातिरुच्या । सुगन्धितीक्ष्णा मधुरातिहृद्या सन्दीपनी पुंस्त्वकरा च बल्या ॥ विरेचनी वक्त्रसुगन्धिकारिणी । नाम्ना याम्लसरा सुतीक्ष्णमधुरा रुच्या हिमा दाहनुत् पित्तोद्रेकहरासुदीपनकरी बल्यामुखामोदिनी । [] स्त्रीसौभाग्यविवर्द्धिनी मदकरी ज्ञेया सदा वल्लभा गुल्माध्मानविबन्धजिच्च कथिता सा मालवे तु स्थिता ॥ अन्ध्रि पुष्कलिका नाम कषायोष्णा कटुस्तथा । मलापकर्षा कण्ठस्य पित्तहृद्बातनाशिनी ॥ द्वैषणीया कटुस्तीक्ष्णा हृद्या दीर्घदला च सा । कफवातहरा रुच्या कटुदीपनपाचनी ॥” इति राजनिर्घण्टः ॥
📄 मूल मुद्रित पृष्ठ (2-851-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।