🕉️ 28 November 2026, Saturday · 05:36:05 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

नाटकलक्षण
nāṭakalakṣaṇa
🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
नाटक—लक्षण n. N. of wk.
📄 मूल मुद्रित पृष्ठ (534,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
नाटकलक्षण न० नाटकस्य दशविधरूपकस्य लक्षणम् । सा० द० उक्ते षट्त्रिंशन्मिते नाटकस्य लक्षणे यथा “षटत्रिंशल्लक्षणान्यत्र नाट्यालङ्कृतयस्तथा ३६ । त्रय- स्त्रिंशत् प्रयोज्यानि वीथ्यङ्गानि त्रयोदश । लास्याङ्गानि दश यथालाभं रसव्यपेक्षया” इत्युद्दिश्य “भूषणाक्षरसं- हातौ शोभोदाहरणं तथा । हेतुसंशयदृष्टान्तास्तुल्यतर्कः पदोच्चयः । निदर्शनाभिप्रायौ च प्राप्तिर्विचार एव च । दिष्ठोपदिष्टे च गुणातिपातातिशयौ तथा । विशेषण- निरुक्ती च सिद्धिर्भ्रंशविपर्य्ययौ । दाक्षिण्यानुनयौ मालाऽर्थापत्तिगर्हणे तथा । पृच्छा प्रसिद्धिः सारूप्यं संक्षेपो गुणकीर्त्तनम् । लेशो मनोरथोऽनुक्तसिद्धिः प्रिय- वचस्तथा । लक्षणानि” इति बिभज्य क्रमेणलक्षितानि यथा “गुणैः सालङ्कारैर्य्योगस्तु भूषणम् १ । वर्णनाऽक्षर- संहात २ श्चित्रार्थैरक्षरैर्मितैः । सिद्धैरर्थैः समं यत्र प्रसि- द्धोऽर्थः प्रकाशते । श्लिष्टलक्षणचित्रार्था सा शोभेत्यभि- धीयते ३ । यत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात् । [] साध्यतेऽभिमतश्चार्थस्तदुदाहरणं ४ मतम् । हेतु ५ र्वाक्यं समासोक्तमिष्टकृद्धेतुदर्शनात् । संशयो ६ ज्ञाततत्त्वस्य वाक्ये स्याद्यदनिश्चयः । दृष्टान्तो ७ यस्तु पक्षार्थसाध- नाय निदर्शनम् । तुल्यतर्को ८ यदर्थेन तर्कः प्रकृतगा- मिना । सञ्चयोऽर्थानुरूपो यः पदानां स पदोच्चयः ९ । यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्त्तनम् । परपक्ष- व्युदासार्थं तन्निदर्शन १० मुच्यते । अभिप्राय ११ स्तु सादृ- श्यादद्भुतार्थस्य कल्पना । प्राप्तिः १२ केनचिदंशेन किञ्चि- द्यत्रानुमीयते । विचारो १३ युक्तवाक्यैर्यदप्रत्यक्षा- र्थसाधनम् । देशकालस्वरूपेण वर्णना दिष्ट १४ मुच्यते । उपदिष्टं १५ मनोहारि वाक्यं शास्त्रानुसारतः । गुणातिपातः १६ कार्य्यं यद्विपरीतं गुणान् प्रति । यः सामान्यगुणोद्रेकः स गुणातिशयो १७ मतः । अ- र्थान् सिद्धान् बहूनुक्त्वा विशेषोक्तिर्विशेषणम् १८ । पूर्व- सिद्धार्थकथनं निरुक्ति १९ रिति कीर्त्तितम् । बहूनां कीर्त्तनं सिद्धि २० रभिप्रेतार्थसिद्धये । दृप्तादीनां भवेद्- भ्रंशो २१ वाच्यादन्यतरद्वचः । विचारस्यान्यथाभावः सन्देहात्तु विपर्य्ययः २२ । दाक्षिण्यं २३ चेष्टया वाचा परचित्तानुवर्त्तनम् । वाक्यैः स्निग्धैरनुनयो २४ भवे- दर्थस्य साधनम् । माला २५ स्याद्यदभीष्टार्थं नैकार्थप्र- तिपादनम् । अर्थापत्ति २६ र्यदन्यार्थोऽर्थान्तरोक्तेः प्रती- यते । दूषणोद्घोषणायां तु भर्त्सना गर्हणं २७ तु तत् । अभ्यर्थनापरैर्वाक्यैः पृच्छा २८ ऽर्थान्वेषणं २९ मतम् । प्रसिद्धि ३० र्लोकसिद्धार्थैरुत्कृष्टैरर्थसाधनम् । सारूप्य ३१ मभिभूतस्य सारूप्यात् क्षोभवर्त्तनम् । संक्षेपो ३२ यत्तु संक्षेपादात्मन्यर्थे प्रयुज्यते । गुणानां कीर्त्तनं यत्तु तदेव गुणकीर्त्तनम् ३२ । स लेशो ३३ भण्यते वाक्यं यत् सादृश्य पुरःसरम् । मनोरथ ३४ स्त्वभिप्रांयस्योक्तिर्भङ्ग्यन्तरेण यत् । विशेषार्थोऽतिप्रस्तावेऽनुक्तसिद्धि ३५ रुदीर्थ्यते । स्यात्प्रमाणयितुं पूज्यं प्रियोक्ति ३६ र्हर्षभाषणम्” ।
📄 मूल मुद्रित पृष्ठ (4020-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬