नाट्यभाषा स्त्री नाट्ये प्रयोक्तव्या पात्रभेदेन भाषा । नाटके प्रयोक्तव्ये पात्रभेदेन भाषाभेदे साच सङ्गीतदा० उक्ता नाटकशब्दे दर्शिता विशेषस्तु सा० द० उक्तो यथा “पुरुषाणामनीचानां संस्कृतं स्यात् कृतात्मनाम् । शौर- सेनी प्रयोक्तव्या तादृशीनाञ्च योषिताम् । आसामेव तु गाथासु महाराष्ट्रीं प्रयोजयेत् । अत्रोक्ता मागधी भाषा राजान्तःपुरचारिणाम् । चेटानां राजपुत्राणां श्रेष्ठिनां चार्द्धमागधी । प्राच्या विदूषकादीर्ना धूर्त्तानां स्यादवन्तिका । योधनागरिकादीनां दाक्षिणात्या हि दीव्यताम् । शकाराणां शकादीनां शाकारीं सम्प्रयो- जयेत् । वाह्लीकभाषा दिव्यानां द्राविडी द्रविडादिषु । आभीरेषु तथाऽभीरी चाण्डाली पुक्कसादिषु । आ- भीरी शावरी चापि काष्ठपत्रोपजीविषु । तथैवाङ्गार- कारादौ पैशाची स्यात् पिशाचवाक् । चेटीनामप्य- नीचानामपि स्यात् शौरसेनिका । बालानां षण्डका- नाञ्च नीचग्रहविचारिणाम् । उन्मत्तानामातुराणां सैव स्यात् संस्कृतं क्वचित् । ऐश्वर्य्येण प्रमत्तस्य दारि- द्र्योपस्कृतस्य च । भिक्षुबन्धधरादीनां प्राकृतं सम्प्रयो- जयेत् । संस्कृतं सम्प्रयोक्तव्यं लिङ्गिनीषूत्तमासु च । देवीमन्त्रिसुतावेश्यास्वपि कैश्चित्तथोदितम् । यद्देशं नीचपात्रन्तु तद्देशं तस्य भाषितम् । कार्य्यतश्चोत्तमा- दीनां कार्य्यो भाषाविपर्य्ययः । योषित्सखीबाल- वेश्याकितवाप्सरसां तथा । वैदग्ध्यार्थं प्रदातव्यं संस्कृतं चान्तरान्वरा” । नाटकभाषाऽप्यत्र ।
📄 मूल मुद्रित पृष्ठ (4021,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।