नाट्याङ्ग न० ६ त० । सा० द० उक्ते दशविधे नाट्यस्याङ्गे यथा “गेयपदं स्थितपाद्यमासीनं पुष्पगण्डिका । प्रच्छेदक- स्त्रिगूढञ्च सैन्धवाख्यं द्विगूढकम । उत्तसोत्तमकञ्चान्य- [] दुक्तप्रत्युक्तमेव च । लास्ये दशविधं ह्येतदङ्गमुक्तं मनीषिभिः । तन्त्रीभाण्डं पुरस्कृत्योपविष्टस्यासने पुरः । शुष्कं गानं गेयपदं १ स्थितपाद्यं २ तदुच्यते । मदनोत्ता- पिता यत्र पठति प्राकृतं स्थिता । निखिलातोद्यरहितं शोकृचिन्तान्विताऽबला । सुप्रसारितगात्रं यदासीदा- सीन ३ मेव तु । आतोद्यमिश्रितं गेयं छन्दांसि विविधानि च । स्त्रीपुंसयोर्विपर्य्यासचेष्टितं पुष्पगण्डिका ४ । अन्या- सङ्गं पतिं मत्वा प्रेमविच्छेदमन्युना । वीणापुरःसरं गानं स्त्रियाः प्रच्छेदको ५ मतः । स्त्रीवेशधारिणां पुंसां नाट्यं श्लक्ष्णं त्रिगूढकम् ६ । कश्चन भ्रष्टसङ्केतः सुव्य- क्तकरणान्वितः । प्राकृतं वचनं वक्ति यत्र तत्सैन्धवं ७ विदुः । चतुरस्रपदं गीतं मुखप्रतिमुखान्वितम् । द्विगूढं ८ रसभावाढ्यमुत्तमोत्तमकं ९ पुनः । कोपप्रसादजमधिक्षेप- युक्तं रसोत्तरम् । हावहेलान्वितं चित्रश्लोकबन्धमनोह- रम् । उक्तिप्रत्युक्तिसंयुक्तं सोपालम्भमलीकवत् । विला- सान्वितगीतार्थमुक्तप्रत्युक्त १० सुच्यते” ।
📄 मूल मुद्रित पृष्ठ (4021-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।