🕉️ 29 November 2026, Sunday · 11:46:17 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

नाट्योक्ति
nāṭyokti
🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
नाट्योक्ति f. dramatic phraseology, Sāh.
📄 मूल मुद्रित पृष्ठ (534,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
नाट्योक्ति स्त्री नाट्ये उक्तिर्विशेषोक्तिः । लौकिकप्रसिद्धा- र्थकशब्दान्तरेण नाट्ये पदार्थान्तराणामुक्तौ तथा च केषाञ्चित् शब्दानामन्यार्थे पारिभाषिकत्वं नाट्ये ज्ञेयम् सा च सा० द० निर्णीता यथा “अश्राव्यं खलु यद्वस्तु तदिह स्वगतं १ मतम् । सर्वश्राव्यं प्रकाशं २ स्यात्तद्भवेदपवारितम् ३ । रहस्यन्तु यदन्यस्य परावृत्य प्रकाश्यते । त्रिपताककरेणान्यानप- वार्य्यान्तरा कथा । अन्थोन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम् ४ । किं ब्रवीषीति यन्नाट्ये विना पात्रं । प्रयुज्यते । श्रुत्वेवानुक्तमप्यर्थं तत्स्यादाकाशभाषितम् ५ । दत्तां सिद्धाञ्च सेनाञ्च वेश्यानां नाम दर्शयेत् । दत्त- प्रायाणि बणिजां चेटचेट्योस्तथा पुनः । वसन्तादिषु वर्ण्यस्य वस्तुनो नाम यद्भवेत् । नाम कार्य्यं नाटकस्य गर्भतार्थप्रकाशकम् । नायिकानायकाख्यानां संज्ञा- प्रकरणादिषु । नाटिकासट्टकादीनां नायिकाभिर्विशेष- णम् । प्रायेण ण्यन्तकः साधिर्गमेः स्थाने प्रयुज्यते । राजा स्वामीति देवेति भृत्यैर्भट्टेति चाधमैः । राजर्षि- भिर्वयस्येति तथा विदूषकेण च । राजन्नित्यृषिभिर्वाच्यः सोऽपत्यप्रत्ययेन च । स्वेच्छया नामभिर्विप्रैर्विप्र आर्येति चेतरेः । वयस्येत्यथ वा नाम्ना वाच्यो राज्ञा विदूषकः । वाच्यौ नटीसूत्रधारावार्य्यनाम्ना परस्परम् । सूत्रधारो भवेद्भाव इति वै पारिपार्श्विकः । सूत्रधारो मारिषेति हण्डे इत्यधमैः समाः । वयस्येत्युचमैर्हंहो मध्यै- रार्य्येति चाग्रजः । भगवन्निति वक्तव्याः सर्वैर्देवर्षि- लिङ्गिनः । वदेद्राज्ञीञ्च चेटीञ्च भवतीति विदूषकः । आयुष्मन् रथिनं सूतो वदेत् तातेति चेतरः । वत्स पुत्रक तातेति नाम्ना गोत्रेण वा सुतः । शिष्योऽनुजश्च [] वक्तव्योऽमात्य आर्य्येति चाधमैः । विप्रैरयममात्येति सचिवेति च भण्यते । साधो इति तपस्वी च प्रशान्त- श्चोच्यते बुधैः । अगृहीताभिधः पूज्यः शिष्याद्यैर्विनि- नद्यते । उपाध्यायेति चाचार्य्यो महाराजेति भूपतिः । स्वामीति युवराजस्तु कुमारो भर्तृदारकः । सौम्य भद्र- मुखेत्येवमधभैस्तु कुमारकः । वाच्या प्रकृतिभीराज्ञः कुमारी भर्तृदारिका । पतिर्यथा तथा वाच्या ज्येष्ठ- मध्याधमैस्त्रियः । हलेति सदृशी प्रेष्या हञ्जे वेश्या- ऽर्जका तथा । कुट्टिन्यम्बेत्यनुगतैः पूज्या च जरती- जनैः । आमन्त्रणैश्च पाषण्डा वाच्याः स्वसमयागतैः । शकादयश्च सम्भाष्या भद्रदत्तादिनामभिः । यस्य यत्कर्म शिल्पं वा विद्या वा जातिरेव वा । तेनैव नाभ्ना वाच्योऽसौ ज्ञेयाश्चान्ये यथोचितम्” । “अमरे तु वासुराचार्यस्तु मारिषः” वासुरधिकः पठितः ।
📄 मूल मुद्रित पृष्ठ (4022-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
नाट्योक्तिः, स्त्री, (नाट्ये नृत्यगीतादौ या उक्तिः ।) नाटकविषयकवचः । नटानां कर्म्म नाट्यं तत्रोक्तिः नाट्योक्तिः । इति भरतः ॥ तद्यथा । आर्य्येति ब्राह्मणम् । क्षत्त्रियं महाराजेति । सखीं हलेति । नीचं हण्डे इति । चेटीं हञ्जे इति । स्वामिनमार्य्यपुत्त्रेति । राजश्यालं राष्ट्रि- येति । समानं हंहो इति । राजानं देवेति । सार्व्वभौमं भट्टेति । भगिनीपतिमावुत्तेति सम्बो- धयेत् । इति सङ्गीतदामोदरः ॥ गणिकायां अज्जुका । विद्वति भावः । जनके आवुकः । कुमारे युषराजभर्त्तृदारकौ ॥ राज्ञि देवभट्टा- रकौ । राजसुतायां भर्त्तृदारिका । कृताभिषे- कायां राज्ञ्यां देवी । इतरासु राज्ञीषु भट्टिनी । अवध्योक्तौ अब्रह्मण्यम् । मातरि अम्बा । बालायां वासूः । आर्य्ये मारिषः । ज्येष्ठा- भगिन्यां अन्तिका । निष्ठायां निर्व्वहणम् । इत्यमरः । १ । ७ । ११ -- १५ ॥ (यथाच साहित्य- दर्पणे । ६ । १५४ -- १६० । “अश्राव्यं खलु यद्वस्तु तदिह स्वगतं मतम् । सर्व्वश्राव्यं प्रकाशं स्यात्तद्भवेदपवारितम् ॥ रहस्यन्तु यदन्यस्य परावृत्य प्रकाश्यते । त्रिपताककरेणान्यानपवार्य्यान्तरा कथाम् ॥ अन्योन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम् । किं ब्रवीषीति यत् नाट्ये विना पात्रं प्रयुज्यते ॥ श्रुत्वेवानुक्तमप्यर्थं तत् स्यादाकाशभाषितम् ॥ [] दत्तां सिद्धाञ्च सेनाञ्च वेश्यानां नाम दर्शयेत् । दत्तप्रायाणि बणिजां चेटचेट्योस्तथा पुनः ॥ वसन्तादिषु वर्ण्यस्य वस्तुनो नाम यद्भवेत् ॥ नाम कार्य्यं नाटकस्य गर्भितार्थप्रकाशकम् । नायिकानायकाख्यानां संज्ञाप्रकरणादिषु ॥ नाटिकासट्टकादीनां नायिकाभिर्विशेषणम् । प्रायेण ण्यन्तकः साधिर्गमेः स्थाने प्रयुज्यते ॥ राजा स्वामीति देवेति भृत्यैर्भट्टेति चाधमैः । राजर्षिभिर्वयस्येति तथा विदूषकेण च ॥ राजन्नित्यृषिभिर्वाच्यः सोऽपत्यप्रत्ययेन च । स्वेच्छया नामभिर्षिप्रैर्षिप्र आर्य्येति चेतरैः ॥ वयस्येत्यथवा नाम्ना वाच्यो राज्ञा विदूषकः । वाच्यौ नटीसूत्रधारावार्य्यनाम्ना परस्परम् ॥ सूत्रधारं वदेद्भाव इति वै पारिपार्श्विकः । सूत्रधारो मारिषेति हण्डे इत्यधमैः समाः ॥ वयस्येत्युत्तमैर्हंहो मध्यैरार्य्येति चाग्रजः । भगवन्निति वक्तव्याः सर्व्वैर्देवर्षिलिङ्गिनः ॥ वदेद्राज्ञीञ्च चेटीञ्च भवतीति विदूषकः । आयुष्मन्रथिनं सूतो वृद्ध तातेति चेतरैः ॥ वत्स पुत्त्रक तातेति नाम्ना गोत्रेण वा सुतः । शिष्योऽनुजश्च वक्तव्योऽमात्य आर्य्येति चाधमैः ॥ विप्रैरयममात्येति सचिवेति च भण्यते । साधो इति तपस्वी च प्रशान्तश्चोच्यते बुधैः ॥ अगृहीताभिधः पूज्यः शिष्याद्यैर्विनिगद्यते । उपाध्यायेति चाचार्य्यो महाराजेति भूपतिः ॥ स्वामीति युवराजस्तु कुमारो भर्त्तृदारकः । सौम्य भद्रमुखेत्येवमधमैस्तु कुमारकः ॥ वाच्या प्रकृतिभी राज्ञः कुमारी भर्त्तृदारिका ॥ पतिर्यथा तथा वाच्या ज्येष्ठमध्याधमैस्त्रियः । हलेति सदृशी प्रेष्या हञ्जे वेश्याऽञ्जका तथा ॥ कुट्टिन्यम्बेत्यनुगतैः पूज्या च जरतीजनैः । आमन्त्रणैश्च पाषण्डा वाच्याः स्वसमयागतैः ॥ शकादयश्च सम्भाष्या भद्रदत्तादिनामभिः । यस्य यत् कर्म्म शिल्पं वा विद्या वा जातिरेव वा ॥ तेनैव नाम्ना वाच्योऽसौ ज्ञेयाश्चान्ये यथोचि- तम् ॥”)
📄 मूल मुद्रित पृष्ठ (2-853-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬