नाडीव्रण पु० न० नाडीव व्रणम् । माधवकरोक्ते ब्रणभेदे (नालीघा) “यः शोथमाममिति पक्वमुपेक्षतेऽज्ञो यो वा व्रणं प्रचूरपूयमसाधुवृत्तः । अभ्यन्तरं प्रविशति प्रविदार्य तस्य स्थानानि पूर्वविहितानि ततः सपूयः । तस्यातिमात्रगमनाद्गतिरिष्यते तु नाडीव यद्वहति तेन मता तु नाडी” । वातादिदोषभेदेन तस्य रूपाणि यथा “दोषैस्त्रिभिर्भबति सा पृथगेकशश्च संमूर्च्छितैरपि च शल्यनिमित्ततोऽन्या । तत्रानिलात् परुषसूक्ष्ममुखी स- शूला फेनानुविद्धमधिकं स्रवति क्षपासु । पित्तात्तृषाज्वर- करी परिदाहयुक्ता पीतं स्रवत्यधिकमुष्णमहःसुतापि । ज्ञेया कफाद्बहुघनार्जनपिच्छिलास्रा स्तब्धा सकण्डूर रुणा रजनीप्रवृद्धा । दाहज्वरश्वसनमूर्च्छनवक्त्रशोषा यस्यां भवन्त्यमिहितानि च लक्षणानि । तामादिशेत् पवनपित्तकफप्रकोपाद् घोरामसुक्षयकरीमिव काल- रात्रिम् । दोषद्वयाभिहतलक्षणदर्शनेन तिस्रो गतीर्व्य- तिकरप्रभवास्तु विद्यात्” । शल्यनिमित्तलक्षणं यथा [] “नष्टं कथञ्चिदनुमार्गमुदीरितेषु स्थानेषु शल्यमचिरेण गतिं करोति । सा फेनिलं मथितमच्छमसृग्विमिश्रमुष्णं करोति सहसा सरुजञ्च नित्यम्” । असाध्यकृच्छ्रसा- ध्ययोर्लक्षणं यथा “नाडी त्रिदोषप्रभबा न सिध्येत् शेषाश्चतस्रः खलु यत्नसाध्याः” ।
📄 मूल मुद्रित पृष्ठ (4028-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।