🕉️ 23 November 2026, Monday · 08:35:16 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

नामापराध
nāmāparādha
🟠 शब्दसागर🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
नामापराध संज्ञा पुं॰ [सं॰] किसी प्रतिष्ठित का नाम लेकर अपशब्द प्रयोग [को॰] ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
नामापराध पु० नाम्नि तद्विषये अपराधः । भगवदादिना- मादिषु अवज्ञादिरूपे अपराधे नामापराधाश्च केचित् पाद्मोत्तरस्व० १०३ अ० दर्शिता यथा “सतां निन्दा नाम्नां परममपराधं वितनुते यतः ख्यातिं यातस्तमुपहसते गर्हयति च । तथा विष्णोरिष्टं य इह गुणनामादि सकलं धिया भिन्नं पश्येत् स खलु हरिनामाऽहितकरः । गुरोरवज्ञा श्रुतिशास्त्रनिन्दनं तथार्थवादो हरिनाम्नि कल्प्यते । नाम्नां बलाद्यस्य हि पापबुद्धिर्न विद्यते तस्य शठस्य शुद्धिः । दिवौकसां गुरोः पित्रोर्भूसराणाञ्च गर्हणम् । नामापराधं यत्तत् स्याद्वैष्णवानां तथा नृणाम् । गोऽश्वत्यतुमसीधात्रीर्नृ- पान्निन्दन्ति नारद! । नामापराधी स भवेन्नामगोबिन्द वैष्णवान्” ।
📄 मूल मुद्रित पृष्ठ (4041,b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
नामापराधः, पुं, (नाम्नि नामविषये अपराधः । नाम्नः सकाशात् अपराधो वा ।) साधुनिन्दा- दिरूपदुरदृष्टजनकव्यापारविशेषः । यथा, -- श्रीनारद उवाच । “के तेऽपराधा विप्रेन्द्र ! नाम्नो भगवतः कृताः । विविन्दन्ति नृणां कृत्यं प्राकृतं ह्यानयन्ति च ॥ तत् कथ्यतां महाभागापराधं नाम्नि केशवे । केन केन प्रकारेण भवेद्वै तज्जनादिषु ॥ [] सनत्कुमार उवाच । सतां निन्दा नाम्नः परममपराधं वितनुते यतः ख्यातिं यातस्तमुपहसते गर्हयति च । तथा विष्णोरिष्टं य इह गुणनामादि सकलं धिया भिन्नं पश्येत् स खलु हरिनामाहितकरः ॥ गुरोरवज्ञा श्रुतिशास्त्रनिन्दनं तथार्थवादो हरिनाम्नि कल्पनम् । नाम्नां बलाद्यस्य हि पापबुद्धि- र्न विद्यते तस्य शठस्य शुद्धिः ॥ दिवौकसां गुरोः पित्रोर्भूसुराणाञ्च गर्हनम् । नामापराधं यत्तत् स्याद्वैष्णवानां तथा नृणाम् ॥ गोऽश्वत्थतुलसीधात्रीर्नृपान्निन्दन्ति नारद ! । नामापराधी स भवेन्नाम गोविन्दवैष्णवान् ॥ सर्व्वतीर्थानि क्षेत्राणि चावमन्यति निन्दति । गङ्गासरस्वतीयामीश्चापराधी भवेन्नरः ॥ श्रीमद्भागवतं महाभारतं ब्राह्मणान् गुरुम् । मन्त्रं महाप्रसादञ्च योऽवमन्यति नारकी ॥ अवतारान् हरेस्तत्तन्नामभक्तांश्च निन्दति । अवमन्यति देवर्षे नारकी स जनोऽधमः ॥ गोविन्दस्यार्च्चनं कुर्य्यादवमन्यति वैष्णवान् । निन्दतीह च नामानि स नाम्नोऽप्यपराधकृत् ॥ वर्णाश्रमानन्त्यजांश्च जातिबुद्ध्यावमन्यति । वैष्णवान् कुरुते निन्दामपराधी नराधमः ॥ द्बिजबन्धुं स्त्रियं शूद्रं जातिभेदेन वैष्णवम् । येऽवमन्यन्ति निन्दन्ति ते वै निरयगामिनः ॥ अर्च्चे विष्णोः शिलाधीर्गुरुषु नरमतिर्वैष्णवे जाति- बुद्धि- र्विष्णोर्व्वा वैष्णवानां कलिमलमथने पादतीर्थे- ऽम्बुबुद्धिः । विष्णोर्न्निर्म्माल्यनाम्नोः कलुषदहनयोरन्य- सामान्यबुद्धि- र्व्विष्णौ सर्व्वेश्वरेशे तदितरसमधीर्य्यस्य वा नारकी सः ॥ पूज्यते देवसामान्यं कृत्वा नारायणं नरः । नामापराधी स भवेद्वैष्णवान् यो न सेवते ॥ नारद उवाच । नामापराधा ह्यपराः कति सन्ति तपोधन ! । तत् कथ्यतां मे सकलं यदि योग्यो भवामि ते ॥ सनत्कुमार उवाच । वैष्णवे शठतां विष्णौ गुरौ पित्रोश्च भूसुरे । निन्दां यः कुरुते मोहादपराधी स नारकी ॥” इति पाद्मोत्तरखण्डे । १०२ -- १०३ अध्यायौ ॥ अपि च । “धर्म्मव्रतत्यागहुतादिसर्व्व- शुभक्रियासाम्यमपि प्रमादः । अश्रद्दधाने विसुखेऽप्यशृण्वति यश्चोपदेशः शिवनामापराधः ॥ श्रुत्वापि नाममाहात्म्यं यः प्रीतिरहितो नरः । अहं ममादि परमो नाम्नि सोऽप्यपराधकृत् ॥” अपराधभञ्जनमाह । “जाते नामापराधेऽपि प्रमादेन कथञ्चन । सदा संकीर्त्तयेन्नाम तदेकशरणो भवेत् ॥ [] नामापराधयुक्तानां नामान्येव हरन्त्यघम् । अविश्रान्तप्रयुक्तानि तान्येवार्थकराणि च ॥ नामैकं यस्य वाचि स्मरणपथगतं श्रोत्रमूलं गतं वा शुद्धं वाशुद्धवर्णं व्यवहितरहितं तारयत्येव सत्यम् । तच्चेद्देहद्रविणजनतालोभपाषण्डमध्ये निक्षिप्तं स्यान्न फलजनकं शीघ्रमेवात्र विप्र ! ॥” इति श्रीहरिभक्तिविलासः ॥
📄 मूल मुद्रित पृष्ठ (2-862-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬