🕉️ 24 November 2026, Tuesday · 05:48:29 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

नारायणतैल
nārāyaṇataila
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
नारायणतैल संज्ञा पुं॰ [सं॰] आयुर्वेद में एक प्रसिद्ध तैल । विशेष—तिल के तेल में असगंध, भटकटैया, बेल की जड़ की छाल, देवदार, जटामासी इत्यादि बहुत सी दवाएँ पकाकर इस तेल कौ तैयार करते हैं ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
नारायण—तैल See above.
📄 मूल मुद्रित पृष्ठ (537,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
नारायणतैलं, क्ली, (नारायणाख्यं तैलम् ।) औषध- पक्वतैलप्रभेदः । तत्त्रिविधम् । स्वल्पं बृहत् महच्च । यथा, -- “विल्वाग्निमन्थश्योनाकपाटलापारिभद्रकाः । प्रसारण्यश्वगन्धा च बृहती कण्टकारिका ॥ बला चातिबला चैव श्वदंष्ट्रा सपुनर्नवा । एषां दशपलान् भागान् चतुर्द्रोणेऽम्भसः पचेत् ॥ पादशेषं परिस्राव्य तैलपात्रं प्रदापयेत् । शतपुष्पा देवदारु मांसी शैलेयकं वचा ॥ चन्दनं तगतं कुष्ठं एलापर्णी चतुष्टयम् । रास्ना तुरगगन्धा च सैन्धवं सपुनर्नवम् ॥ एषां द्बिपलिकान् भागान् पेषयित्वा विनिः- क्षिपेत् । शतावरी रसञ्चैव तैलतुल्यं प्रदापयेत् ॥ आजं वा यदि वा गव्यं क्षीरं दत्ता चतुर्गुणम् ॥ पाने वस्तौ तथाभ्यङ्गे भोज्ये चैव प्रशस्यते । अश्वो वा वातसंभग्नो गजो वा यदि वा नरः ॥ पङ्गुलः पीठसर्पी च तैलेनानेन सिध्यति । अधोभागे च ये वाताः शिरोमध्यगताश्च ये । दन्तशूले हनुस्तम्भे मन्यास्तम्भे गलग्रहे ॥ यस्य शुष्यति चैकाङ्गं गतिर्यस्य च विह्वला । क्षीणेन्द्रिया नष्टशुक्रा ज्वरक्षीणाश्च ये नराः ॥ वधिरा लल्लजिह्वाश्च मन्दमेधस एव च । अल्पप्रजा च या नारी या च गर्भं न विन्दति ॥ वातार्त्तौ वृषणौ येषामन्त्रवृद्धिश्च दारुणा । एतत्तैलवरं तेषां नाम्ना नारायणं स्मृतम् ॥” इति स्वल्पनारायणतैलम् ॥ १ ॥ * ॥ “शतावरी चांशुमती पृश्निपर्णी शटी बला । एरण्डस्य च मूलानि बृहत्योः पूतिकस्य च ॥ गवेधुकस्य मूलानि तथा सहचरस्य च । एषां दशपलान् भागान् जलद्रोणे विपाचयेत् ॥ पादशेषे रसे पूते गर्भं चैनं समावपेत् । पुनर्नवा वचा दारु शताह्वा नन्दनागुरु ॥ शैलेयं तगरं कुष्टं एला मांसी स्थिरा बला । अश्वाह्वा सैन्धवं रास्ना पलार्द्धानि च पेषयेत् । गव्याजपयसः प्रस्थौ द्बौ द्वावत्र प्रदापयेत् ॥ शतावरीरसप्रस्थं तैलप्रस्थं विपाचयेत् । अस्य तैलस्य सिद्धस्य शृणु वीर्य्यमतःपरम् ॥ [] अश्वानां वातभग्नानां कुञ्जराणां तथा नृणाम् । तैलमेतत् प्रयोक्तव्यं सर्व्ववातनिवारणम् ॥ आयुष्मांश्च नरः पीत्वा निश्चयेन दृढो भवेत् । गर्भमश्वतरी विन्द्यात् किं पुनर्मानुषी तथा ॥ हृच्छूलं पार्श्वशूलञ्च तथैवार्द्धावभेदकम् । अपचीं गण्डमालाञ्च वातरक्तं हनुग्रहम् ॥ कामलां पाण्डुरोगञ्च अश्मरीञ्चापि नाशयेत् । तैलमेतद्भगवता विष्णुना परिकीर्त्तितम् । नारायणमिति ख्यातं वातान्तकरणं शुभम् ॥” इति बृहन्नारायणतैलम् ॥ २ ॥ * ॥ “विल्वाश्वगन्धा बृहती श्वदंष्ट्रा श्योनाकवाट्यालकपारिभद्रम् । क्षुद्रा कठिन्यातिबलाग्निमन्थं मूलानि चैषां सरलीयुतानाम् ॥ मूलं विदद्यादथ पाटलीनां प्रत्येकमेषां प्रवदन्ति तज्ज्ञाः । सपादप्रस्थं विधिनोद्धृताञ्च द्रोणैरपामष्टभिरेव पक्त्वा ॥ पादावशेषेण रसेन तेन तैलाढकाभ्यां सममेव दुग्धम् । छागस्य मांसद्रवमेव तुल्य- मेकत्र सम्यग्विवचेत् सुबुद्धिः ॥ दद्याद्रसञ्चैव शतावरीणां तैलेन तुल्यं पुनरेव तत्र । रास्नाश्वगन्धा द्रुमदारु कुष्ठं पर्णी चतुष्कागुरुकेशराणि ॥ सिन्धूत्थमांसी रजनीद्वयञ्च शैलेयकं चन्दनपुष्कराणि । एला सयष्टी तगराब्दपत्रं भृङ्गाष्टवर्गास्तु वचा पलाशम् ॥ स्थौणेयवृश्चीरकचोरकाख्य- मेभिः समस्तैर्द्धिपलप्रमाणैः । कर्पूरकाश्मीरमृगाण्डजानां दद्यात् सुगन्धाय वदन्ति केचित् ॥ प्रस्वेददौर्गन्ध्यनिवारणार्थं चूर्णीकृतानां द्बिपलप्रमाणम् । आलोड्य सम्यग्विधिवद्विपक्वं नारायणं नाम महच्च तैलम् ॥ * ॥ सर्व्वैः प्रकारैर्विधिवत् प्रयोज्य- मश्वस्य पुंसां पवनार्द्दितानाम् । ये पङ्गवः पीठविसर्पणाश्च एकाङ्गहीनार्द्दितवेपमानाः । वाधिर्य्यशुक्रक्षयपीडिताश्च मन्याहनुस्तम्भशिरोगदार्त्ताः । मुक्ता नरास्ते बलवर्णयुक्ताः संसेव्य तैलं सहसा भवन्ति ॥ बन्ध्या च नारी लभते च प
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬