🕉️ 24 November 2026, Tuesday · 03:30:20 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

नारायणबलि
nārāyaṇabali
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
नारायणबलि संज्ञा पुं॰ [सं॰] आत्मघात द्वारा बुरी तरह से मरनेवाले पतित मृतक के प्रायश्चित्त के लिये एक बलिकर्म जो नारायण आदि पाँच देवताओं के उद्देश्य से किया जाता है । विशेष—आत्महत्या करनेवाले के और्ध्वदैहिक क्रिया नियमा- नुसार समय पर नहीं की जाती । मृत्यु के एक वर्ष पर नारायणबलि और पर्णनर दाह (फूस के पुतले का दाह) करके तब श्राद्धिदिक किए जाते हैं । आत्मघाती का जो दाह आदि करता है उसे भी प्रायश्चित करना चाहिए ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
नारायण—बलि m. ‘oblation to N˚’, a partic. funeral ceremony
N. of wk. (also -प्रयोग m. -विधि m. -समर्थन n. -स्वयम्-प्रयोजन-सञ्चिका f.)
📄 मूल मुद्रित पृष्ठ (537,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
नारायणबलि पु० नारायणमुद्दिश्य देयो बलिः । दुर्मरण- मृतानामौर्द्धदेहिकक्रियासम्प्रदानतायोग्यत्वार्थं नारा- यणादिपञ्चदेवतोद्देशेन देये बलिभेदे तस्य निमि- त्तञ्च आत्मधातिन्शब्दे ६६० पृ० उक्तं तद्विधानं निर्णय सिन्धावुक्तं यथा “नारायणवलिस्तु हेमाद्र्याद्यनुसारेणोच्यते तत्रादौ क्रियानिबन्धे गारुडे तर्पणमुक्तम् “कार्य्यं पुरुषसूक्तेन मन्त्रैर्वा वैष्णवैरपि । दक्षिणाभिमुखो भूत्वा प्रेतं विष्णु- मिति स्मरन् । अनादिनिधनो देवः शङ्खचक्रगदाधरः । अक्षय्यः पुण्डरीकाक्षः प्रेतमोक्षप्रदो भवेति” । शुक्लैका- दश्यां देशकालौ संकीर्त्यामुकगोत्रस्यामुकस्य दुर्मरणा- त्मघातजदोषनाशार्थम् और्ध्वदेहिकसम्प्रदानत्वयोग्यता- सिध्यर्थं नारायणवलिं करिष्ये इति सङ्कल्प्य ब्रह्माणं विष्णुं शिवं यमं प्रेतञ्च पञ्चकुम्भेषु स्थापयेत् “विष्णुः स्वर्णमयः कार्यो रुद्रस्ताम्रमयस्तथा । ब्रह्मा रौप्यमयस्तत्र यमो लोहमयो भवेत् । प्रेतोदर्भमयः कार्य्य इति देव- प्रकल्पनेति” गारुडोक्तामु सर्वासु हैमीषु बा प्रतिमासु षोडशोपचारैः पुरुषसूक्तेनाभ्यर्च्याग्निं प्रतिष्ठाप्य चरुं पुरुषसूक्तेन प्रत्यृचं नारायणायेदमिति हुत्वा देवाना- मग्रे दक्षिणाग्रदर्भेषु विष्णुरूपं प्रेतं स्मरन् नामगो- त्राभ्यां मधुघृततिलयुतान् दश पिण्डान् यज्ञोपवी- त्येवामुकगोत्रामुकशर्मन्! प्रेत । विष्णुरूपाय ते पिण्ड उपतिष्ठताभिति दत्त्वा पुरुषसूक्तेनाभिमन्त्र्य तेनैव शङ्खोदकेनाभिषिच्याभ्यर्च्यामुकशर्माणममुकगोत्रं विष्णु- रूपं प्रेतं तर्पयामीति पुरुषसूक्तेन प्रत्यृचं तर्पयित्वा एवमामान्नं ब्रह्मादिपञ्चभ्यो दद्यात् मन्त्रस्तु “ब्रह्मविष्णु- महाद्वेवा यमश्चैव सकिङ्करः । वलिं गृहीत्वा कुर्वन्तु प्रेतस्य च शुभां गतिम्” । मिताक्षरायान्तु होमवल्यादि नोक्तम् । ततः प्रतिदैवतं त्रिविधं फलं शर्करामधुगुडघृतानि च निवेद्य पिण्डानभ्यर्च्य नद्यां क्षित्वा रात्रौ नव सप्त पञ्च वा विप्रान्तिमन्त्र्योपोषितो जागरं कृत्वा श्वोभूते पुनर्विष्णुं ब्रह्माणं रुद्रं यमं संपूज्यैकोद्दिष्टविधिना श्राद्धपञ्चकं [] करिष्ये इत्युक्त्वा विष्णुयमब्रह्मरुद्रप्रेतान् स्मरन् विप्रानुपवेश्य प्रेतस्थाने चैकं विष्णुं स्मरन् पाद्यावा- हनार्घ्ययुतं तृप्तिप्रश्रान्तं कृत्वोल्लेखनादि कृत्वान्नशेषेण विष्णवे ब्रह्मणे शिबाय यमाय सपरिवाराय चतुरः पिण्डान् दत्त्वा प्रेतनामगोत्रे स्मृत्वा विष्णुनाम्ना पञ्चमं दत्त्वाभ्यर्च्याचान्तेभ्यो दक्षिणां दत्त्वैकं प्रेतं स्मृत्वा विशे- षतः सन्तोष्य विप्रैः प्रेतायेदं तिलोदकमुपतिष्ठतामिति सतिलमुदकं दापयित्वा भुञ्जीतेति । अत्र विशेषान्तरं च अनन्तभट्टकृतान्त्येष्टिपद्धतौ ज्ञेयम्” ।
📄 मूल मुद्रित पृष्ठ (4047-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
नारायणबलिः, पुं, (नारायणाय नारायणमुद्दिश्य देयो बलिः ।) मृतपतितादीनां प्रायश्चित्ता- त्मककर्म्मविशेषः । यथा । “नारायणबलिस्तु हेमाद्र्याद्यनुसारेणोच्यते । तत्रादौ क्रियानिबन्धे गारुडे तर्पणमुक्तम् । ‘कार्य्यं पुरुषसूक्तेन मन्त्रैर्व्वा वैष्णवैरपि । दक्षिणाभिमुखो भूत्वा प्रेतं विष्णुमिति स्मरन् ॥ अनादिनिधनो देवः शङ्खचक्रगदाधरः । अक्षयः पुण्डरीकाक्षः प्रेतमोक्षप्रदो भव ॥’ इति शुक्लैकादश्यां देशकालौ सङ्कीर्त्त्य अमुक- गोत्रस्यामुकस्य दुर्म्मरणात्मघातजदोषनाशार्थं और्द्ध्वदेहिके संप्रदानत्वयोग्यतासिद्ध्यर्थं नारा- यणबलिं करिष्ये । इति सङ्कल्प्य ब्रह्माणं विष्णुं शिवं यमं प्रेतं पञ्चकुम्भेषु स्थापयेत् । ‘विष्णुः स्वर्णमयः कार्य्यो रुद्रस्ताम्रमयस्तथा । ब्रह्मा रौप्यमयस्तत्र यमो लौहमयो भवेत् ॥ प्रेतो दर्भमयः कार्य्यः ।’ इति गारुडोक्तासु सर्व्वासु हैमीषु वा प्रतिमासु षोडशोपचारैः पुरुष- सूक्तेनाभ्यर्च्च्याग्निं प्रतिष्ठाप्य चरुं पुरुषसूक्तेन प्रतृयचं नारायणायेदमिति हुत्वा देवानामग्ने दक्षिणाग्रदर्भेषु विष्णुरूपं प्रेतं स्मरन् नाम- गोत्राभ्यां मधुघृततिलयुतान् दशपिण्डान् यज्ञो- पवीत्येव अमुकगोत्र अमुकशर्म्मन् प्रेत विष्णु- रूपाय ते पिण्ड उपतिष्ठतामिति दत्त्वा कुशैः पुरुषसूक्तेनाभिमन्त्र्य यत्ते यममिति सूक्तेन पिण्डाननुमन्त्र्य शङ्खोदकेन चाभिषिच्याभ्यर्च्च्या- मुकशर्म्माणममुकगोत्रं विष्णुरूपं प्रेतं तर्पया मीति पुरुषसूक्तेन प्रतृयचं तर्पयित्वा एक- मामान्नं ब्रह्मादिपञ्चभ्यो दद्यात् । मन्त्रस्तु । ‘ब्रह्मविष्णुमहादेवा यमश्चैव सकिङ्करः । बलिं गृहीत्वा कुर्व्वन्तु प्रेतस्य च शुभां गति- मिति ॥’ मिताक्षरायान्तु होमबल्यादिना उक्तम् । ततः प्रतिदैवतं त्रिविधं फलं शर्करामधुगुडघृतानि च निवेद्य पिण्डानभ्यर्च्च्य नद्यां क्षिप्त्वा रात्रौ नव सप्त पञ्च वा विप्रान्निमन्त्र्योपोषितेन जागरणं कृत्वा श्वोभूते पुनर्व्विष्णुं यमं संपूज्यैकोद्दिष्ट- विधिना श्राद्धपञ्चकं करिष्ये इत्युक्त्वा ब्रह्मविष्णु- शिवयमप्रेतान् स्मरन् विप्रान् उपविश्य प्रेत- स्थाने चैकं विष्णुं स्मरन् आवाहनाद्यर्घ्ययुतं [] तृप्तिप्रश्नान्तं कृत्वोल्लेखनादि कृत्वान्नशेषेण ब्रह्मणे विष्णवे शिवाय यमाय सपरिवाराय चतुरः पिण्डान् दत्त्वा प्रेतनामगोत्रे स्मृत्वा विष्णु- नाम्ना पञ्चमं दत्त्वाभ्यर्च्च्याचान्तेभ्यो दक्षिणां दत्त्वैकं प्रेतं स्मृत्वा विशेषतः संतोष्य विप्रैः प्रेतायेदं तिलोदकमुपतिष्ठतामिति सतिलमुदकं दापयित्वा भुञ्जीतेति । अत्र विशेषान्तरं भट्ट- कृतान्त्येष्टिपद्धतौ ज्ञेयम् ॥ * ॥ सर्पहते तु वर्ष- पर्य्यन्तं पूर्व्वे ह्येकभक्तपूर्व्वं शुक्लपञ्चम्यामुपवासं नक्तं वा कृत्वा पिष्टमयं नागमनन्तवासुकिशङ्ख- पद्मकम्बलकर्क्कोटकाश्वतरधृतराष्ट्रशङ्खपालका- लियतक्षककपिलेति नामभिः प्रतिमासं संपूज्य पायसेन विप्रान् संभोज्य वत्सरान्ते हैमं नागं गाञ्च प्रत्यक्षाञ्च दत्त्वा नारायणबलिं कुर्य्यात् । मूलन्तु हेमाद्रौ ज्ञेयम् ॥ * ॥ बौधायनसूत्रे सर्पमृतानां नमोऽस्तु सर्पेभ्य इति तिस्र आहु- तीर्हुत्वोदके मृतानां समुद्राय वरुणाय हुत्वेति क्रियां कुर्य्यादिति शेषः । व्यासः । सौवर्णभारनिष्पन्नं नागं कृत्वा तथैव गाम् । व्यासाय दत्त्वा विधिवत् पितुरानृण्यमाप्तवान् ॥’ हेमाद्रौ भविष्ये । ‘पञ्चम्यां पन्नगं हैमं स्वर्णेनैकेन कारयेत् । क्षीराज्यपात्रमध्यस्थं पूज्यविप्राय दापयेत् ॥ प्रायश्चित्तमिदं प्रोक्तं नागदष्टस्य शम्भुनेति ॥’ अपरार्कस्मृत्यन्तरे । ‘तदैव शुध्यति प्रेतो नारायणबलौ कृते । य
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬