🕉️ 28 November 2026, Saturday · 03:36:31 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

नासागतरोग
nāsāgataroga
🟢 वाचस्पत्यम्
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
नासागतरोग पु० सुश्रुतोक्ते नासागतव्याधिभेदे यथा “अथातो नासागतरोगविज्ञानीयमध्यायं व्याख्यास्यामः । अषीनसः १ पूतिनस्यं २ नासापाक ३ स्तथैव च । तथा- शोणितपित्त ४ ञ्च पूयशोणित ५ मेव च । क्षवथु ६ र्भ्रंशथु ७- र्दीप्तो ८ नासानाहः ९ परिस्रवः १० । नासाशोषेण ११ सहिता दशैकश्चेरिता गदाः । चत्वार्य्यर्शांसि चत्वारः शोफाः सप्तार्बुदानि च । प्रतिश्यायाश्च ये पञ्च वक्ष्यन्ते सचिकित्सिताः । एकत्रिंशन्मितास्ते तु नासा- रोगाः प्रकीर्त्तिताः । आनह्यते यस्य विधूप्यते च पापच्यते क्लिद्यति चापि नासा । न वेत्ति यो गन्ध- रसांश्च जन्तुर्जुष्टं व्यवस्येत्तमपीनसेन १ । तञ्चानिलश्ले- ष्मभवं विकारं ब्रूयात्प्रतिश्यायसमानलिङ्गम् । दोषै- र्विदग्धैर्गलतालुमूले संबाहितो यस्य समीरणस्तु । निरेति पूतिर्मुखनासिकाभ्यान्तं पूतिनस्यं २ प्रवदन्ति रोगम् । घ्राणश्रितं पित्तमरूंषि कुर्य्याद्यस्मिन्विकारे बलवांश्च पाकः । तं नासिकापाक ३ मिति व्यवस्येद्विक्लेद- कोथावपि यत्र दृष्टौ । चतुर्विधं द्विप्रभवं द्विमार्गं वक्ष्यामि भूयः खलु रक्तपित्तम् ४ । दौषैर्विदग्धैरथ वापि जन्तोर्ललाटदेशेऽभिहतस्य तैस्तु । नासा स्रवेत् पूयमसृ- ग्विमिश्रं तं पूयरक्तं ५ प्रवदन्ति रोगम् । घ्राणाश्रिते मर्मणि सम्प्रदुष्टे यस्यानिलो नासिकया निरेति । कफानुयातो बहुशः सशब्दस्तं रोगमाहुः क्षवथुं ६ वि- धिज्ञाः । तीक्ष्णोपयोगादतिजिघ्रतो वा भावान् क- टूनर्कनिरोक्षणाद्वा । सूत्रादिभिर्वा तरुणास्थिमर्मण्यु- द्घाटिते यः क्षवथुर्निरेति । प्रभ्रश्यते नासिकयैव यश्च सान्द्रो विदग्धो लवणः कफस्तु । प्राक्सञ्चितो मूर्घ्निच पित्ततप्तं तं भ्रंशथुं ७ व्याधिमुदाहरन्ति । घ्राणे भृशं दाहसमन्विते तु विनिःसरेद्धूम इवेह वायुः । नासा प्रदीप्तेव च यस्य जन्तोर्व्याधिन्तु तं दीप्त ८ मुदाहरन्ति । कफावृतो वायुरुदानसंज्ञो यदा स्वमार्गे विगुणः स्थितः स्यात् । घ्राणं वृणोतीव तदा स रोगो नासाप्रतीनाह ९ इति प्रदिष्टः । अजस्नमच्छं सलिलप्रकाशं यस्याविवर्णं स्रवतीह १० नासा । रात्रौ विशेषेन हि तं नासापरि- स्रावमिति व्यवस्येत् । घ्राणश्रिते श्लेष्मणि मारुतेन पित्तेन गाढं परिशोषिते च । समुच्छसित्यूर्द्ध्वमधश्च [] कृच्छ्राद्यस्तस्य नासापरिशोष ११ उक्तः । दोषैस्त्रिभिस्तैः पृथगेकशश्च ब्रूयात्तथार्शांसि तथैव शोफान् । शालाक्य सिद्धान्तमवेक्ष्य वापि सर्वात्मकं सप्तकमर्बुदं तु । रोगः प्रतिश्याय इह प्रदिष्टः स वक्ष्यते पञ्चविधः पुरस्तात् । शोफाश्च शोफविज्ञाने नासास्रोतोव्यवस्थिताः । निदाने- ऽर्शांसि निर्दिष्टान्येवं तानि विभावयेत्” ।
📄 मूल मुद्रित पृष्ठ (4051-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬