नि(म्बु)म्बूकं, क्ली, (निम्बति सिञ्चतीव रसेनेति । निम्ब सेचने + बाहुलकात् ऊः पाक्षिको ह्रस्वश्च । ततः कन् ।) वृक्षविशेषः । काग्जी लेवु इति भाषा ॥ तत्पर्य्यायः । अम्लजम्बीरः २ वह्निः ३ दीप्तः ४ वह्निबीजः ५ अम्लसारः ६ दन्ताघातः ७ शोधनः ८ जन्तुमारी ९ निम्बूः १० रोचनः ११ । (यथा, भावप्रकाशे पूर्व्वखण्डे १ भागे । “निम्बः स्त्री निम्बकं क्लीवे निम्बूकमपि कीर्त्ति तम् ॥”) तत्फलगुणाः । अम्लरसत्वम् । कटुत्वम् । उष्ण- त्वम् । गुल्मामवातकासकफार्त्तिकण्ठविच्छर्द्दि- हरत्वम् । आग्नवृद्धिकारित्वम् । चक्षुष्यत्वम् । परिपक्वे अतीव रुच्यत्वञ्च । इति राजनिर्घण्टः ॥ पाचनत्वम् । लघुत्वम् । कृमिसमूहोदरग्रह- नाशित्वम् । तीक्ष्णत्वम् । वातपित्तकफशूलिनो हितत्वम् । कष्टनष्टरुचिरोचनत्वम् । त्रिदोष- वह्निक्षयवातरोगनिपीडितानां विषविह्वलानां मलग्रहे बद्धगुदे विसूचिकायाञ्च प्रदेयम् । इति भावप्रकाशः ॥ * ॥ [] “भागैकं निम्बुजं तोयं षड्भागं शर्करोदकम् । लंवङ्गमरिचोन्मिश्रं पानकं पानकोत्तमम् ॥ निम्बूफलभवं पानमत्यम्लं वातनाशनम् । वह्निदीप्तिकरं रुच्यं समस्ताहारपाचकम् ॥” इति राजनिर्घण्टः ॥
📄 मूल मुद्रित पृष्ठ (2-886-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।