🕉️ 28 November 2026, Saturday · 12:31:15 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

निःक्षेप
niḥkṣepa
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
निःक्षेप संज्ञा पुं॰ [सं॰]
१. निक्षेप । फेंकना । प्रक्षेपण ।
२. जमा । गिरवी । आड़ ।
३. बिना किसी प्रतिबंध के जमा किया हुआ । सामान्य जमा ।
४. प्रेषित करना ।
५. परित्याग ।
६. पोछंना । सुखाना ।
७. गड़ा धन । भूगर्भस्थ धन [को॰] ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
निः-˚क्षेप m. throwing or sending away, removing, Kull.
📄 मूल मुद्रित पृष्ठ (543,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
निःक्षेपः 1 Throwing, sending away. --2 Spending (time). --3 Wiping (tears).
📄 मूल मुद्रित पृष्ठ (0617-a)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
निः(नि)क्षेप पु० निर्--(नि)वा क्षिप--भावे घञ् । १ अर्पणे (गच्छितराखा) अष्टादशविवादान्तर्गते २ विवादभेदे । स च वीर० मि० विस्तरेण दर्शितो यथा [] “अथ निः(नि)क्षेपाख्यव्यवहारपदम् । तत्र निः(नि) क्षेपो नाम स्वद्रव्यस्य विश्वासेन पुरुषान्तरे स्थापनम् । तथा च नारदः “स्वद्रव्यं यत्र विस्रम्भान्निः(नि)- क्षिपत्यविशङ्कितः । निः(नि)क्षेपो नाम तत्प्रोक्तं व्यवहारपदं बुधैरिति” नच न्यासोपनिध्योरतिव्याप्ति- स्तयोर्लक्ष्यत्वान्निः (नि)क्षेप एव । ग्राहकस्यासमक्षं सम- र्पितो न्यास इत्युच्यते । अतएव वृहस्पतिः “राजचौ- रादिकभयाद्दायादानां च वञ्चनात् । स्थाप्यतेऽन्यगृहे द्रव्यं न्यासः स परिकीर्त्तितः” इति । अयमेवागणि- तद्रव्यस्थापने उपनिधिरित्युच्यते । तथा च नारदः “असङ्ख्यातमविज्ञातं समुद्रं यन्निधीयते । तज्जानीया- दुपनिधिं निः(नि)क्षेपङ्गणितं विदुरिति” । असङ्ख्यातम् अनाख्यातम् अविज्ञातम् अदर्शितम् । अतएव वृह- स्पतिः “असमक्षं व्यवहितमसङ्ख्यातमदर्शितम् । मुद्रा- ङ्कितञ्च यद्द्रव्यं तदौपनिधिकं स्मृतमिति” व्यवहितं करण्डकादौ प्रक्षिप्य पिहितम् । अतएव याज्ञवल्क्यः “वासनस्थमविज्ञातं हस्तेऽन्यस्य यदर्प्यते । द्रव्यन्तदौप- निधिकं प्रतिदेयन्तथैव तदिति” वासनं द्रव्याधार करण्डकादि तत्स्थं वासनस्थम् । हस्तग्रहणमुपलक्ष- णम् । अतएव नारदः “निः(नि)क्षिप्यते परगृहे तदौप- निधिकं स्मृतमिति” । तथा चायमेतेषाम्भेदः । ग्राह- कस्य समक्षं गणयित्वा स्थापितं निः(नि)क्षेपः । गृहस्वा- मिनोऽसमक्षं गणितं वा तस्मिन्नामते एतद्दातव्यमित्यु- क्त्वाऽन्यस्य तत्पुत्रादेर्हस्ते दत्तं न्यासः । मुद्राङ्कितमस- मक्षमनणितं स्थापितमुपनिधिरिति । निः(नि)क्षेपादीनां स्थापनप्रकारमाह मनुः “कुलजे वृत्तसम्पन्ने धर्मज्ञे सत्यवादिनि । महापक्षे धनिन्यार्य्ये निः(नि)क्षेपं निः- (नि)क्षिपेद्बुधः” इति । महापक्षे बहुतरबन्धुयुक्ते । निः(नि)क्षेपग्रहणमुपलक्षणम् । वृहस्पतिः “स्थानं गृहञ्च तद्वर्णं विधानञ्च गुणन्तथा । सत्यं शौचं वन्धुजनं परीक्ष्य स्थापयेन्निधिमिति” निधिरुपनिधिः । एतदप्यु- पलक्षणम् । निः(नि)क्षेपादीनां रक्षणं कथं कर्तव्यं ग्रा- हकेणेत्याह वृहस्पतिः “ससाक्षिकं रहोदत्तं द्विबिधं समुदाहृतम् । पुत्रवत्परिपाल्यं तद्विनश्यत्यनवेक्षणे” इति । पालयितुः फलभपालयितुर्दोषञ्चाह “ददतो यद्भवेत् पुण्यं हेमकूप्याम्बरादिकम् । तत् स्यात्फलमतो न्यासो यथैव श- रणागतः । भर्तृद्रोहं यथा नार्याः पुंसः पुत्रसुहृद्बधे । दोषो भवेत्तथा न्यासे भक्षितोपेक्षिते नृणाम् । न्यास- [] द्रव्य” न गृह्णीयात्तन्नाशस्त्वयशस्करः । गृहीतं पाल- येद्यत्नात् सकृद्याचितमर्पयेदिति” न्यासग्रहणमुपलक्ष- णम् । तेन फलरक्षणादिकं निः(नि)क्षेपादित्रयसाधार- णमिति मन्तव्यम् । दैवराजोपघाते ग्राहकस्य न दोष इत्याह वृहस्पतिः “दैवराजोपघातेन यदि तन्नाशमाप्नु- यात् । ग्रहीतृद्रव्यसहितं न तद्दोषोऽत्र विद्यत” इति । ग्रहीतुरिति शेषः उपेक्षादिद्रव्यदोषाभावादिति मावः । ग्रहीतृद्रव्यसहितमित्युपेक्षाभावनिश्चयायोक्तम् । तेन क- थञ्चिन्निः(नि)क्षिप्तमात्रस्य विनाशे प्रमाणान्तरादुपेक्षाभावे निश्चिते ग्रहीतुर्दोषो न विद्यते इति मन्तव्यम् । दैव- राजग्रहणमसमाधेयनिमित्तोपलक्षणार्थम् । अतएव कात्यायनः “राजदैविकचौरैर्वा निः(नि)क्षिप्तं यत्र नाशितम् । ग्रहीतुः सह भाण्डेन दातुर्नष्टन्तदुच्यते” इति । भाण्डेन अर्थेन । नारदोऽपि “ग्रहीतुः सह योऽर्थेन नष्ट एव स दायिनः । दैवराजकृते तद्वन्न चेत्तज्जिह्मकारितमिति” तद्वदितिपदेनैकमुपमेयमन्य- दुपमानमित्यवगम्यते । तेनैवं योजना ग्रहीतुरर्थेन सह यो नष्ट
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬