निगमन न० निगम्यतेऽनेन करणे ल्युट् । १ न्यायस्य चरमा- वयवे । निगमनलक्षणं गौ० सू० उक्तं यथा “हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम्” गौ० सू० “साधर्म्योक्ते वैधर्म्योक्ते वा यथोदाहरणमुप- संह्रियते तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्दः इति निग- मनम् निगम्यन्तेऽनेनेति प्रतिज्ञाहेतूदाहरणोपनया एकत्रेति निगमनम् निगम्यन्ते समर्थ्यन्ते सम्बोध्यन्ते तत्र साधर्म्योक्ते तावद्धेतौ वाक्यम् अनित्यः शब्दः इति प्रतिज्ञा, उत्पत्तिधर्मकत्वादिति हेतुः । उत्पत्तिधर्मकं स्थाल्यादिद्रव्यमनित्यमित्युदाहरणम् । तथा चोत्पत्ति धर्मकः शब्द इत्युपनयः तस्मादुत्पत्तिघर्मकत्वादनित्यः शब्द इति निगमनम् वैधर्म्योक्तेऽपि अनित्यः शब्द उत्पत्तिधर्मकत्वात् अनुत्पत्तिधर्मकमात्मादि द्रव्यं नित्यं दृष्टम् न च तथाऽनुत्पत्तिधर्मकः शब्दः तस्मादुत्पत्तिघ- र्मकत्वादनित्यः शब्द इति” भाध्यम् । तत्सूत्रं वृत्तौ तु अन्यथा व्याख्यातम् । “हेतोर्व्याप्तिविशिष्टपक्षधर्मस्य अपदेशः कथनं प्रतिज्ञायाः प्रतिज्ञार्थस्य साध्यविशिष्टपक्षस्य वचनं नि- गमनं तथा च व्याप्तिविशिष्टपक्षधर्महेतुकथनपूर्वकसाध्य- विशिष्टपक्षप्रदर्शकः व्याप्तपक्षधर्महेतुज्ञाप्यसाध्यविशिष्ट- [] पक्षवोधकस्तादृशबोधको वान्यायावयवो निगमनम् इति” अनु० चिन्ता० तल्लक्षणं यथा “उपनयानन्तरं निगमनं तच्चानुमितिहेतुलिङ्गपरा- मर्शप्रयोजकशब्दज्ञानकारणव्याप्तिपक्षताधीप्रयुक्तसाध्यधी- जनकं वाक्यम्” । प्रतिकूलप्रमाणाभावसूचके २ प्रतिज्ञोपसहारवचने त- स्मात् तथेति वचने यथा “असकृदनुचिन्तितानामव्या- हततरनिजोपदेशानाम् । प्रामाण्यपरमसीम्नां निगमन- मिदमेव निखिलनिगमानाम्” वेदान्तप्र० ।
📄 मूल मुद्रित पृष्ठ (4059-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।