नित्यप्रलय पु० नित्यः प्रात्यहिकः प्रलयः । सुषुप्तौ “चतु- र्विधस्तु प्रलयो नित्यो यः प्राणिनां लयः । सदा विनाशो जातानाम्” अग्निपु० ३६७ अ० स च प्रलयचातुर्विध्यमुक्त्वा वेदान्तपरिभाषायां विवृतो यथा “स च चतुर्विधः नित्यः प्राकृतो नैमित्तिक आत्यन्तिक- श्चेति । तत्र नित्यप्रलयः सुषुप्तिः तस्याः सकलकार्य्य- प्रलयरूपत्वाद् धर्माघर्मपूर्वसंस्काराणाञ्च तदा कारणा- त्मनावस्थानं, तेन सुप्तोत्थितस्य न सुखदुःखाद्यनुपपत्तिः न वा स्मरणानुपपत्तिः । न च सुषुप्तावन्तःकरणस्यापि विनाशे तदधीनप्राणनादि क्रियानुपपत्तिः, वस्तुतः श्वासा- द्यभावेऽपि तदुपलब्धेः पुरुषान्तरविभ्रममात्रत्वात् सुप्त- शरीरोपलम्भवत् । नचैवं सुषुप्तस्य परेतादविशेषः सुषु- प्तस्य हि लिङ्गशरीरं संस्कारात्मना तत्रैव वर्त्तते परेतस्य तु लोकान्तरे इति वैलक्षण्यात् । यद्वा अन्तःकरणस्य द्वे शक्तो ज्ञानशक्तिः क्रियाशक्तिश्चेति तत्र ज्ञानशक्तिविशि- ष्टन्तःकरणस्य सुषुप्तौ विनाशः न तु क्रियाशक्तिविशिष्ट- स्येति प्राणनाद्यवस्थानमविरुद्धम् । “यदा सुप्तः स्वप्नं न कञ्चन पश्यति अथास्मिन् प्राणएवैकधा भवति अथैनं वाक सर्वैर्नामभिः सहाप्येति सता सौम्य! तदा सम्पन्नो भवति स्वमपीतो भवतीत्यादि” श्रुतिरुक्तमुषुप्तौ मानम्” ।
📄 मूल मुद्रित पृष्ठ (4064,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।